ण्डुलैरभग्ननिस्तुषशालिबीजैः कृत्वाऽर्घं पूजां प्रथममुपहृत्य दत्त्वा, अथानन्तरमेव स्वविहारिभिः स्वस्मिन्वर्तमानैः स्वसत्ताकैश्च शिशिरस्य हिमस्य क्षोदश्चूर्णबिन्दवस्तेषां श्रेणीमयैः परम्परारूपैरुदसक्तुभिर्जलमिश्रयवचूर्णैर्ग्रासातिथ्यं भोज्यान्नदानलक्षणमतिथिपूजनं सृजति करोति । अन्योपि तण्डुलदूर्वादलयुतेन जलेन पूर्वमर्घं दत्त्वा सक्त्वादिना स्वगृहप्राप्तायातिथये भोज्यं ददाति । सूर्यदीप्तयः पूर्वं तारास्तिमिरं च हिमजलकणानप्यपनयन्ति स्मेति भावः। 'मूल्ये पूजाविधावर्घः','मुक्ताशुद्धौ च तारः स्यात्' इत्यमरः । अत्र तारशब्दः पुंलिङ्गः । तारयति सांयात्रिकानिति ण्यन्तात्तरतेः पचाद्यच् । रविरुचां संबन्धसामान्ये विवक्षया षष्ठी । उदकयुक्ताः, सक्तवः मध्यमपदलोपी, उदकानि च सक्तवश्चेति वा समासः। 'मन्थौदन-' इत्युदादेशः ।
असुरहितमप्यादित्योत्थां विपत्तिमुपागतं |
अस्विति ॥ दितिसुता दैत्यास्तेषां गुरुः शुक्र आदित्येभ्यो देवेभ्यो हेतुभ्य उत्थां जाताम् , अथ च-सूर्यात्संजातां विपत्तिं मरणं नाशं च कचवद्बृहस्पतिपुत्रवदुपागतं प्राप्तमसुरेभ्यो हितमाप तेषां रात्रिंचरत्वादनुकूलमपि तमः प्राणैर्योक्तुं संयोजयितुं कण्ठे लुठतीं जाग्रद्रूपां मृतानां जीवनीमित्यनुगतार्थां विद्यां किं न पठति, अपि तु स्पष्टं पठेदेव । परं चेदयं शुक्राचार्यः प्रातःकालीनसंध्यायां मौनव्रतं मौनलक्षणो नियमस्तस्य व्ययो भङ्गस्तस्माद्भीरुतां भयशीलत्वं यदि न वहते न धारयेत् , तर्हीति संबन्धः । पठति वहते कालसामान्ये लट् । लुठतीम् , वैकल्पिकत्वान्नुमभावः ॥
उदयशिखरिप्रस्थान्यह्ना रणेऽत्र निशः क्षणे |
उदयेति ॥ अह्ना दिनेन सह निशो रात्रे रणे सङ्ग्रामरूपेऽत्रास्सिन्क्षणे । प्रातःकाल इत्यर्थः । तत्रोदयशिखरी उदयाचलस्तस्य प्रस्थानि शिखराणि कर्तॄप्यूष्मभिः प्रातःकालीनातपसंतापैः द्रुतानामश्मजतूनां शिलाजतूनां स्रवान्प्रवाहान्दधति । यद्वा-क्षण उत्सवतुल्ये रात्रिविनाशकारित्वात्सङ्ग्राम इव सङ्ग्रामे विहरंस्तयोर्युद्धकौतुकदर्शनेन परिक्रीडमानः पूषा सूर्यो ग्रहराजो यत्रैवंभूतान्युदयाचलसानूनि बालातपसंतापविलीनशिलाजतुस्रवत्प्रवाहानेव कियत्कालविलम्बधूमलीभूतरुधिरप्रवाहान्धारयन्ति । रण-