पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४३
एकोनविंशः सर्गः।

भूमिषु हि कालविलम्बेन धूमला रुधिरप्रवाहा भवन्ति । अत एव-उदयन्नुदयं प्राप्नुवन्नरुणोऽग्रजस्तत्संबन्धिनि प्रह्वीभावे नमस्कारे विषये य आदरो भक्त्यतिशयस्तस्माद्धेतोररुणानुजे मिलति संगमं प्राप्नुवति सति तयोररुणगरुडयोः सङ्गान्मेलनाद्धेतोः रक्तप्रदीप्त्या नवास्तत्कालमापाकादाकृष्टा इष्टका यत्र तादृशी नूतनेष्टकानिर्मिता वेष्टना, नवा इष्टका यत्र शिल्पे तन्नवेष्टकं तेन (वा) वेष्टना प्राकारः किमु न शङ्क्या न तर्क्या, अपि तु सैव तर्क्येत्यर्थः । परिवारभूते दिनप्रकाशे युध्यमाने तद्दर्शिनो लीलाविहारिणो ग्रहराजस्य स्वामिनो महाराजोचितगैरिकसुवर्णभूषितनवेष्टकानिर्मितप्राकारोर्ध्वस्थितिरुचिता संभाव्यते । अथ च -दिनरात्र्योः सेनानीभूतयोः सङ्ग्राम उदयाचलसानूनि तद्भटतुल्यानि रुधिरं धारयन्ति । भटाः प्रहारवशाद्रक्तसिक्ता भवन्ति । तत्र च दिनपक्षीयप्रस्थानां जयित्वात्सुवर्णमयगरुडसंपर्काद्वेष्टकस्य वेष्टना सुवर्णपट्टिकाया धारणा न तर्क्या किमु, अपि तु जयिनां तया भवितव्यमेवेति । गरुडस्तेषां सुवर्णमयवीर (विरुद) पट्टिकास्थाने जात इत्युचितमित्यर्थः । नवेष्टकवेष्टनेति, 'स्त्रियाः पुंवत्-' इति पुंवत् । वेष्टकः, कर्तरि ण्वुल्॥

रविरथहयानश्वस्यन्ति ध्रुवं वडवा बल-
 प्रतिबलबलावस्थायिन्य: समीक्ष्य समीपगान् ।
निजपरिवृढं गाढप्रेमा रथाङ्गविहंगमी
 स्मरशरपराधीनस्वान्ता वृषस्यति संप्रति ॥ १७ ॥

 रवीति ॥ भो राजन्, संप्रति प्रातःकाले बलस्य दैत्यस्य प्रतिबलः शत्रुः प्राचीवर्तीन्द्रस्तस्य बलं सैन्यं तत्रावस्थायिन्यो मध्यवर्तिन्यो वडवास्तुरङ्ग्यो गाढप्रेमाः सूर्याश्वेषु दृढानुरागाः सत्यो रविरथहयान्समीपगान्समीक्ष्य मैथुनार्थमात्मनोऽश्वानिच्छन्ति ध्रुवमुत्प्रेक्षायाम, निश्चितं वा । इच्छन्तीवेत्यर्थः । यतः-स्मरशरपराधीनं स्वान्तं चित्तं यासाम् । तथा-रथाङ्गविहंगमी चक्रवाक्यपि निजं स्वीयं परिवृढं चक्रवाकमिदानीं प्रातः, समीपमागतं दृष्ट्वा कामबाणवशचित्ता, अत एव-रात्रिवियोगेन दृढानुरागा सती मैथुनवाञ्छया वृषस्यति। वृषवद्बलवन्तं तं मैथुनार्थं कामयत इत्यर्थः । सूर्याश्वाः पूर्वस्यामागताः, चक्रवाकयोश्च संगमो जात इति भावः ।अश्वस्यति वृषस्यति आत्मनोऽश्वानिच्छति वृषमिच्छति च, क्यचि 'अश्ववृषयोर्मैथुनेच्छायाम्' इति मैथुनेच्छायामसुगागमः। व्युत्पत्तिमात्रं चैतत् । रूढ्या तु मैथुनार्थमिच्छन्तीत्येवार्थः । तथाच-'वृषस्यन्ती तु कामुकी' इत्यमरः। 'इति रामो वृषस्यन्तीम्' इति च कालिदासः। 'प्रभौ परिवृढः' इति निपात:। गाढप्रेमेति, 'डाबुभाभ्याम्-' इति पक्षद्वयेऽपि डाप् । डापो वैकल्पिकत्वादेकत्र नान्तता(पि)। विहंगमी, जातित्वान्ङीप् । रथाङ्गं चासौ विहंगमी चेति समासः॥

निशि निरशनाः क्षीरस्यन्तः क्षुधाऽश्वकिशोरका
 मधुरमधुरं हेषन्ते ते विलोलितवालधि ।