पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४४
नैषधीयचरिते

तुरगसमजः स्थानोत्थायं क्वणन्मणिमन्थभू-
 धरभवशिलालेहायेहाचणो लवणस्यति ॥ १८ ॥

 निशीति ॥ भो राजन्, निशि रात्रौ निरशना निराहाराः, अत एव क्षुधा क्षीरस्यन्त आत्मनोऽत्यर्थं क्षीरं दुग्धमिच्छन्तः ते अश्वकिशोरका अतिप्रसिद्धा अश्वबालकाः मधुरमधुरं यथातथातिकलशब्दं, तथा-विलोलिताः पुनःपुनश्चालिता वालधयः पुच्छानि यस्यां क्रियायां तद्यथा तथा हेषन्ते हेषारवं कुर्वन्ति । तथा-तव मन्दुरायां स्थितस्तुरगाणां समजः समूहः स्थानोत्थायं शय्यास्थानाच्छीघ्रमुत्थाय क्वणन् हेषमाणः मणिमन्थनामके भूधरे भवानां जातानां शिलानां सैन्धवशिलानां लेहायास्वादनाय ईहया इच्छया पुनःपुनर्मुखादिचालनचेष्टया वा चणः ख्यातः सन् लवणस्यत्यात्मनो लोलुपत्वेन लवणमिच्छति । अश्वकिशोरकाः प्रातः क्षीरपानार्थं हेषन्ते, अश्वास्तु प्रातः सैन्धवास्वादनाय हेषन्त इति जातिः। सूर्योदयो जात इत्यर्थः । क्षीरस्यन्तो, लवणस्यन्तीत्यत्र चात्मेच्छायां क्यचि 'अश्वक्षीर-' इत्यादिना 'क्षीरलवणयोर्लालसायाम्' इति वचनाल्लालसायामसुक् । किशोरकाः, 'अल्पे' इति कन् । मधुरमधुरं प्रकारे द्विः। 'हेषङ् स्वने'।समजः पशुविषयत्वात् 'समुदोरजः पशुषु' इत्यप् । स्थानोत्थायम् । 'अपादाने परीप्सायाम्' इति णमुल् । लेहः, भावे घञ् ॥

उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती
 पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः ।
स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन-
 च्छवि यदनयोर्विच्छेदेपि द्रुतं बत न द्रुतम् ॥ १९ ॥

 उड्विति ॥ हे राजन् , उडुपरिषदो नक्षत्रपरम्पराया अर्हत्वं किं न, अपि त्वौचित्यमेवैतत् । तथा-निशो रात्रेरौचिती न किमु, अपि त्वौचित्यमेव । यद्यस्मात्ताभ्यां तारापङ्क्तिविभावरीभ्यां गणेयोऽल्पो रुचीगणो दीप्तिसमूहः (यस्य स) क्षीणतेजाः पतिः प्राणेशश्चन्द्र इहास्मिन्समये न दृष्टः । तस्मात्तयोरौचित्यमेवेत्यर्थः। 'धन्यास्तात न पश्यन्ति पतिभङ्गं कुलक्षयम् ।' इति वचनात्पतिविपदमदृष्टैव द्वयोरपि ध्वस्तत्वादौचित्येव जातेत्यर्थः । स्फुरन्ती प्रकाशमाना कलङ्कव्याजेन मलिना कृष्णा आश्मनी पाषाणसंबन्धिनी छविः कान्तिर्यस्यैवंभूतमुडुपतेर्वक्षो मध्यम् , अथ च-हृदयम् , स्फुटं निश्चितमाश्मं पाषाणविकाररूपम् । पाषाणघटितमिवातिकठिनं मलिनं चेत्यर्थः। यद्यस्मादनयोस्तारारात्र्योर्विच्छेदे वियोगे,अथ च-विनाशे, सत्यपि द्रुतं शीघ्रं न द्रुतं स्फुटितम् । पाषाणनिर्मितमेवेत्यर्थः।बत खेदे। यत्। वक्षोविशेषणं वा। स्वस्यापि विलये निकटे सत्यपि तत्पतिना चन्द्रेण स्वप्रेयस्योः प्रेम न दर्शितमिति तस्यानौचितीत्यर्थः। तारापरम्परा रात्रिश्च विनष्टा । चन्द्रोपि क्षीणतेजा आसन्ननाशो जात इत्यर्थः । आर्हन्तीति पाठे-'अहः प्रशंसायाम्' इति शतरि, अर्हतो भाव इति ब्राह्मणादित्वात्ष्यञि षित्वान्ङीषि 'अर्हतो नुम्