पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४८
नैषधीयचरिते

नाद्धेतोरेनं नलं कामुक्यामतितरां मैथुनेच्छावत्यां सुभगं तत्परवशं कामुकी पूर्वोक्ता सुभगा सौभाग्यवती भवादृशी स्त्री यस्य एवंभूतं वा अभिधास्यति वदिष्यति । स्त्रीपरवशत्वादयं नित्यकर्मापि त्यजतीति निन्दां करिष्यति तस्माद्विहिताकरणप्रत्यवायलोकगर्हादिपरिहारार्थमेनं मुञ्चेति भावः । विदुषितरा, उगित्त्वान्ङीपि तरपि 'उगितश्च' इति पक्षे ह्रस्वः। भवदत्यागात्सर्वनामत्वात्पुंवत् । पूर्वेण सह मयूरव्यंसकादित्वात्समासः । सुभगाशब्दस्य प्रियादित्वात्पूर्वस्य न पुंवत् । वदतीति वदावदः, पचाद्यच् 'चरिचलि-' इत्यादिना द्वित्वमभ्यासस्यागागमश्च ॥

रह सहचरीमेतां राजन्नपि स्त्रितमां क्षणं
 तरणिकिरणैः स्तोकान्मुक्तैः समालभते नभः ।
उदधिनिरयद्भास्वत्स्वर्णोदकुम्भदिदृक्षुतां
 दधति नलिनं प्रस्थायिन्यः श्रियः कुमुदान्मुदा ॥२५॥

 रहेति ॥ हे राजन् , त्वं सहचरीं सदा सहचरणशीलाम् , तथा-स्त्रितमां स्त्रीषु श्रेष्ठामेवंभूतामप्येनां क्षणमात्रं रह मुञ्च । यतः-नभः स्तोकान्मुक्तैरल्पनिर्गतैर्बालैस्तरणेः सूर्यस्य किरणैः समालभत आत्मनः कुङ्कुमानुलेपनं करोति । तथा-संकुचतः कुमुदात्सकाशाद्विकासोन्मुखं नलिनं कमलवनं प्रतिमुदा प्रस्थायिन्यः प्रस्थास्यन्ते तच्छीलाः श्रिय उदधेः सकाशान्निरयन्निर्गच्छन्भास्वान्स एव स्वर्णस्योदकुम्भो जलपूर्णः कलशस्तं दिदृक्षुतां दर्शनेच्छुतां दधति धारयन्ति । कुमुदान्निर्गताः सत्यः कमलवनं प्रति गन्तुं सूर्योदयं प्रतीक्षन्त इत्यर्थः । जिगमिषवो हि जलपूर्णं कुम्भं दिदृक्षन्ते । प्रभातं जातमित्यर्थः। तस्मान्नित्यकर्मानुष्ठानार्थममोचनीयामप्येतां क्षणमात्रं मुञ्चेति भावः।रहेति 'रह त्यागे'। स्त्रितमां पूर्ववत् । स्तोकान्मुक्तैः, 'स्तोकान्तिक-' इति पञ्चमीसमासः। अत एव पञ्चमी । 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । निरयत् , 'इ गतौ' इत्यस्माच्छता। उद्कुम्भः, 'एकहलादौ पूरयितव्ये-' इत्युदकस्योदादेशः। दिदृक्षुरित्युप्रत्ययान्तत्वात् 'न लोका-' इति षष्ठीनिषेधाद्वितीया, ('द्वितीया' इति) यो[१] गविभागात्समासः॥

प्रथमककुभः पान्थात्वेन स्फुटेक्षितवृत्रहा-
 ण्यनुपदमिह द्रक्ष्यन्ति त्वां महांसि महस्पतेः ।
पटिमवहनादूहापोहक्षमाणि वितन्वता-
 महह युवयोस्तावल्लक्ष्मीविवेचनचातुरीम् ॥ २६ ॥

 प्रथमेति ॥ हे राजन् , महस्पतेः सूर्यस्य महांसि तेजांसि प्रथमककुभः प्राच्याः पान्थत्वेन पथिकतया तेनैव मार्गेण गमनवशात्स्फुटं सविशेषमीक्षितो वृत्रहा यैस्तादृशानि सन्त्यनुपदमनन्तरं सविधमागत्य इह प्रासादे वर्तमानं त्वां द्रक्ष्यन्ति विलोकयि-


  1. इदं च 'गम्यादीनामुपसंख्यानम्' इति वार्तिकविस्मरणमूलकम् ।