पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४९
एकोनविंशः सर्गः।

ष्यन्ति । अनन्तरं पटिन्नोऽतितैक्ष्ण्यस्य, अथ च-प्रज्ञातिशयस्य, वहनाद्धारणादसतः प्रकाशादेः प्रकटीकरणमूहा, सतश्च तिमिरादेरपोहो निराकरणं, तयोः क्षमाणि समर्थानि सामान्यविशेषभावादिनिर्णयनिपुणानि तानि रवितेजांसि युवयोरिन्द्रनलयोस्तावतीनामनेकप्रकाराणां शोभासंपद्रूपाणां लक्ष्मीणां विवेचनचातुरीं तारतम्यविचारकौशलं वितन्वतां विस्तारयतु । अहह चित्रम् । अन्यत्रैवंविधस्य चातुर्यस्यादर्शनादाश्चर्यम् । इन्द्रोऽतिशयशोभासंपत्तिमान्नलो वेति संशये प्रथम (मिन्द्र)दर्शनादिन्द्रे शोभासंपत्तिमत्त्वसामान्यबुद्धिः, अनन्तरं च नलदर्शनान्नले शोभासंपत्तिमत्त्वविशेषबुद्धिरिति सामान्यापेक्षया विशेषस्य बलवत्तरत्वादुभयदर्शिभिः सूर्यकिरणैरिन्द्रापेक्षया शोभासंपत्तिभ्यां नल एवाधिक इति निर्णीयतामिति भावः । अन्योऽपि प्राज्ञ ऊहापोहक्षमः सामान्यविशेषभावादिचातुरीं तनोति । 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्' इत्यमरः । पटिमा पृथ्वादिः । ऊहा, स्त्रीत्वविवक्षायां 'गुरोश्च हलः' इत्यप्रत्ययः॥

अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु
 प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः।
किमपि मुखतः कृत्वानीतं वितीर्य सरोजिनी-
 मधुरसमुषोयोगे जायां नवान्नमचीकरन् ॥ २७ ॥

अनतीति ॥ हे राजन् , खलु यस्मात्पुंभावेन पौरुषेण प्रगल्भबला उत्कटशक्तयोऽतिधृष्टाः, अत एव-अनतिशिथिले विकासोन्मुखेऽत्यक्तकलिकाबन्धकाठिन्येऽपि पाथोजास्ये कमलमुखे मकरन्दग्रहणार्थै प्रसभं हठान्निविश्य प्रविश्य निरित्वरा निर्गमनशीला एवंभूता अलयो भ्रमराः किमपि कियद(मु)र्धं मुखतो मुखे कृत्वाऽऽनीतं किमप्यपूर्वरसं स्वादुतरं सरोजिनीमधुरसं कमलिनीमकरन्दरूपं रसमास्वाद्यं वस्तु उषोयोगे प्रभातकाले वितीर्य दत्त्वा नवान्नं नूतनमपूर्वम् , अथ च-प्रेमभरात्स्वयममुक्तमनुच्छिष्टम्, अन्नं जायां मधुकर्या अचीकरन्कारयामासुः । अविकसिते कठिने कमलेऽबलत्वात्प्रवेष्टुमशक्ता एता इति कृत्वा पौरुषेण स्वयं तत्र प्रविश्य मकरन्दं मुखे कृत्वा समानीय मधुकरीभ्यो दत्त्वा ताभिस्तद्भोजयामासुरित्यर्थः। किंचिदासन्नसौरप्रकाशत्वात्कमलानि विकासोन्मुखानि जातानीति भावः । अन्येनापि प्रातः शुभयोगे वान्नप्राशनं कार्यते । उषायोगेति पाठे-'विभावरी नक्तमुषा च शर्वरी-' इति हलायुधः। उषाया अर्थाद्दिनेन सह योगे । प्रातरित्यर्थः। निरित्वराः, 'इण्नश-' इति क्वरपि तुक् । मुखतः कृत्वेति 'स्वाङ्गे तस्प्रत्यये' इति कृञः क्त्वा । जायाम् , 'हृक्रोः-' इति कर्मत्वम् । जाया इत्यपि पाठः॥

मिहिरकिरणाभोगं भोक्तुं प्रवृत्ततया पुरः
 कलितचुलुकापोशानस्य ग्रहार्थमियं किम् ।