पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५०
नैषधीयचरिते

इति विकसितेनैकेन प्राग्दलेन सरोजिनी
 जनयति मतिं साक्षात्कर्तुर्जनस्य दिनोदये ॥ २८ ॥

 मिहिरेति ॥ सरोजिनी कमलिनी दिनोदये प्रातःकाले प्रागन्यदलापेक्षया पूर्वविकसितेनैकेन दलेन पत्त्रेणोपलक्षिता साक्षात्कर्तुरात्मानं पश्यतो जनस्येति मतिं जनयति । इति किम्-इयं मिहिरस्य सूर्यस्य किरणानामाभोगं परिपूर्णतां भोक्तुमनुभवितुम् , अथच-भक्षयितुं प्रवृत्ततया कृतप्रारम्भतया हेतुभूतया पुरः भोजनादावन्ना(ल)ग्रामृतकरणार्थस्यापोशानस्यामृतोपस्तरणमन्त्रोदकस्य ग्रहार्थं कलितो बद्धश्चुलुकः प्रसृतिविशेषो यया एवंभूता किमु । 'भोजने प्रवृत्तेनापोशानक्रियापूर्वमादावन्ते च भोक्तव्यम्' इति स्मृतेः । अपोशानग्रहीता करकमले एकां कनिष्ठामङ्गुलिं प्रसारयति, अन्याश्च संकोचयतीति संप्रदायः। कमलविकाससमयो जातः, तसादुद्बुध्यस्वेति भावः ॥

तटतरुखगश्रेणीसांराविणैरिव सांप्रतं
 सरसि विगलन्निद्रामुद्राजनिष्ट सरोजिनी।
अधरसुधया मध्येमध्ये वधूमुखलब्धया
 धयति मधुपः स्वादुंकारं मधूनि सरोरुहाम् ॥ २९ ॥

 तटेति ॥ सांप्रतं सरसि सरोजिनी सरसस्तटे तरुषु वर्तमानानां खगश्रेणीनां सांराविणैर्मिलितैः कलकलशब्दैरिव विगलन्ती भ्रश्यन्ती निद्रेव मुद्रा कोरकबन्धो यस्याः यद्वा-विगलन्ती निद्रायाः संकोचस्य मुद्रा भङ्गी यस्याः, सा त्यक्तनिद्रा, उन्मीलितकमललोचनेवाजनिष्ट जाता । कलकलेन च निद्रितस्य निद्रापयाति । तथा--मधुपो भ्रमरः सरोरुहां मधूनि कमलमकरन्दान् वध्वा भ्रमर्या मुखाल्लब्धयाधरसुधया ओष्ठगतपीयूषेण मध्ये मध्ये स्वादुंकारं स्वादूनि माधुर्यातिशययुक्तानि कृत्वा धयति पिबति । कमलानि विकसितानि, भ्रमराश्च तन्मधूनि भ्रमर्यधरं च पिबन्तीत्यर्थः । मधुप इति साभिप्रायम् । मद्यपा अप्येतादृशा भवन्ति । समन्ताद्रावाः सांराविणानि 'अभिविधौ भाव इनुण्' इतीनुण्णन्तात्स्वार्थे अण्णिनुणः' इत्यण् । स्वादुंकारं, 'स्वादुमि णमुल्' मान्तत्वं च पूर्वस्य 'स्वादुमि' इति निर्देशात् ॥

गतचरादनस्यायुर्भ्रंशे दयोदयसंकुच-
 त्कमलमुकुलक्रोडान्नीडप्रवेशमुपेयुषाम् ।
इह मधुलिहां भिन्नेष्वम्भोरुहेषु समायतां
 सह सहचरैरालोक्यन्तेऽधुना मधुपारणाः ॥ ३०॥

 गतेति ॥ गतचरदिनस्यातीतानन्तरदिनस्यायुर्भ्रंशेऽवसानकाले सायंसमये दयाया उदयादिव संकुचतां म्लानानां कमलानां मुकुलानि कलिकास्तेषां क्रोडान्मध्याद्धेतो-