पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५३
एकोनविंशः सर्गः

भ्रमरा मकरन्दमास्वादयन्ति, चक्रवाकाश्च प्रातर्वियोगापगमात्कमलमकरन्दमनादृत्य निजसहचरीश्चुम्बन्तीति भावः । 'फलेग्रहिरात्मंभरिश्च' इति चात्कुक्षिंभरिः । रात्रीतर्षम्, 'अस्यतितृषोः-' इति णमुल्, 'तृतीयाप्रभृतीनि-' इति समासः॥

जगति मिथुने चक्रावेव स्मरागमपारगौ
 नवमिव मिथः संभुञ्जाते वियुज्य वियुज्य यौ।
सततममृतादेवाहाराद्यदापदरोचकं
 तदमृतभुजां भर्ता शंभुर्विषं बुभुजे विभुः ॥ ३४ ॥

 जगतीति ॥ जगति त्रैलोक्यमध्ये चक्रावेव मिथुने स्त्रीपुंसौ स्मरागमपारगौ कामशास्त्रपारगामिनौ तद्रहस्यवेदिनौ नान्यौ । यद्वा-स्मरागमपारगौ चक्रवाकावेव जगति मिथुने । नान्ये एतादृशे चतुरे मिथुने स्त इत्यर्थः । कुत एतज्ज्ञातमित्यत आह-यौ चक्रवाकस्त्रीपुंसौ वियुज्य वियुज्य पुनः पुनरन्योन्येन सह रात्रौ वियोगं प्राप्य मिथोऽन्योन्यं नवमिवातिपरिचयजन्यावज्ञाशून्यं सातिस्पृहमिव संभुञ्जाते सुरतसुखमनुभवतः । अजस्रकामसेवनाद्विरागो भवेदिति वियुज्य संभोगः प्रत्यग्रसंभोगवद्रसातिशयचमत्कारकारी भवति, कामशास्त्ररहस्यं ज्ञात्वैव तावेवं कुरुत इत्यर्थः । अत्र दृष्टान्तः-यद्यस्मादमृतभुजां केवलपीयूषाहाराणां सुराणां भर्ता स्वामी । सुलभतरामृत इति यावत् । विभुर्व्यापकः समर्थः । विषभक्षणेप्यसंभावितोपद्रव इति यावत् । स शंभुर्नीरोगकरणद्वारा सर्वेषामारोग्यसुखकार्यसंभावितरोगोपीश्वरः सततममृतलक्षणादेवाहाराद्भक्ष्यादरोचकममृतात्यन्तानभिलाषरूपं रोगमापत्पाप । तत्तस्मात्तत्परिहारार्थं विषं वुभुजे । सततमधुरतरास्वादजन्यारुचिपरिहारार्थमेव स कालकूटं भक्षितवान् । अनन्तरं च पुनरमृतभक्षणे प्रत्यग्रैव रुचिस्त(र्य)था जायते तथा वियोगपूर्वः संभोगो नितरां रुचिमुत्पादयतीति बुध्वा चक्रवाकाभ्यां क्रियत ति तावेव कामशास्त्ररहस्यज्ञाविति भावः । पारगौ, 'अन्तात्यन्ता-' इति डः । संभुञ्जाते, 'भुजोऽनवने' इति तङ् । अनेन संभोगस्य वियोगादेव नूतनत्वं भवतीति सूच्यते ॥

विशति युवतित्यागे रात्रीमुचं मिहिकारुचं
 दिनमणिमणिं तापे चित्तान्निजाच्च यियासति ।
विरहतरलज्जिह्वा बह्वाह्वयन्त्यतिविह्वला-
 मिह सहचरीं नामग्राहं रथाङ्गविहंगमाः ॥३५॥

 विशतीति ॥ युवतित्यागे चक्रवाकनिष्ठे स्त्रीवियोगे मिहिकारुचं शीतांशुं विशति सति, यतो-रात्रीमुचं रात्रीलक्षणाप्रियात्यागिनम् , तथा-वियोगजन्ये तापे परितापे औष्ण्ये च निजाञ्चित्ताच्चक्रवाकहृदयात्सकाशाद्दिनमणिमणिं सूर्यकान्तं यियासति जगमिषति सति विरहेण तरलन्ती तरलेवाचरन्ती विह्वलीभवन्ती स्खलन्ती जिह्वा