पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५४
नैषधीयचरिते

येषां ते रथाङ्गविहंगमाः विरहेणातिविह्वलां सहचरीं चक्रवाकीं नामग्राहं स्वसंकेतेन नाम गृहीत्वेह प्रभाते क्रीडासरसि वा बहु वारं वारं आह्वयन्त्याकारयन्ति । अन्योप्यतिविह्वलो वारं वारमाकार्यते । श्वसिति न वेति संदेहात् । प्रातश्चक्रवाकानां संयोगः परितापत्यागः परस्पराह्वानम् , चन्द्रे धूसरत्वम् , सूर्यकान्ते तापश्च । 'प्रालेयं मिहिका' इत्यमरः । रात्रीमुचम् , 'क्विप्च' इति क्विप् । रुगिति संपदादित्वात् । मिहिका रुग्यस्येति समासः । तरलज्जिह्वा, तरलेवाचरतीत्याचारक्विबन्ताच्छतरि (ङीप्यपि) पुंवत् । आह्वयन्ति, स्पर्धाभावात्तङ्ङभावः ॥

स्वमुकुलमयैर्नेत्रैरन्धंभविष्णुतया जनः
 किमु कुमुदिनीं दुर्व्याचष्टे रवेरनवेक्षिकाम् ।
लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये
 शृणुतासूर्यंपश्या न सा किल भाविनी ॥ ३६॥

 स्वेति ॥ जनो लोकः स्वमुकुलमयैरात्मीयकलिकारूपैर्नेत्रैः कृत्वान्धंभबिष्णुतया अनन्धाया अप्यन्धत्वाङ्गीकाराद्धेतोः रवेरनवेक्षिकामनवलोकिकां कुमुदिनीं किमु किमर्थं दुर्व्याचष्टे दुष्टां कथयति । अवश्यदर्शनीयपवित्रसूर्यादर्शननियमादियं मित्रोदयं न सहत इति लोकः किमिति निन्दति, अपित्वयुक्तेयं निन्देत्याक्षेपः । नु अहो किं निन्दतीति वा । अन्धंभविष्णुतयाऽविचारतया रहस्यमजानन्नेव किमिति निन्दतीति जनविशेषणं वा । कथमयुक्तमित्यत आह-हे श्रोतारः, यूयं शृणुत तस्याः सूर्यादर्शने हेतुमाकर्णयत । ये राज्ञो नृपस्य दाराः कवीनां पाणिन्यादीनां प्रतिभासमुत्पन्नेषु व्याकरणादिग्रन्थेषु विषये लिखितास्तच्छिष्यैः पठिताश्च, अतोऽवश्यदर्शनीयं सूर्यमपि न पश्यन्तीत्यसूर्यंपश्या राजदारा इत्येव लिखिताः, तच्छिष्यैश्च तथैव पठिताः। ननु प्रकृते किमित्याशङ्क्याह-सा कुमुदिनी किल प्रसिद्धं न भाविनी भविष्यति, अर्थाद्राज्ञो दाराः, अपि तु राज्ञश्चन्द्रस्य, अथ च-नृपस्य दारा भवत्येव । राजमहिप्यो ह्यतिसुरक्षितत्वादसूर्यंपश्याः, इयमपि तथा । तस्मादेतस्या अप्यसूर्यंपश्यता युक्तेति रहस्यानभिज्ञॊ जनो वृथैवैता निन्दतीत्यर्थः । किलशब्दः किमर्थो वा । अत्र य इति कुमुदिनीपरामर्शेपि दारैः सामानाधिकरण्याद्बहुवचनम् । येति पाठः समीचीनः । पठिता, एकवचनं बहुवचनं वा । सूर्योदयवशात्कुमुदिनी संकुचितेति भावः । अन्धंभविष्णुतया, 'कर्तरि भुवः खिष्णुच्-' इति च्व्यर्थेऽन्धशब्द उपपदे भुवः खिष्णुच् , खित्त्वान्मुम् । अवेक्षिका, ण्वुलि 'प्रत्ययस्थात्-' इति कात्पूर्वस्येत्त्वम् । लिखितपठिताः, कर्मधारयो द्वन्द्वो वा । असूर्यंपश्याः, 'असूर्यललाटयोः-' इति खश् , खित्त्वान्मुम् । अत एव ज्ञापकात्क्रियायोगिनोऽपि नञः समासः॥

चुलुकिततमःसिन्धोर्भृङ्गैः करादिव शुभ्यते
 नभसि बिसिनीबन्धो रन्ध्रच्युतैरुदबिन्दुभिः ।