पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५५
एकोनविंशः सर्गः।


शतदलमधुस्रोतःकच्छद्वयीपरिरम्भणा-
 दनुपदमदःपङ्काशङ्काममी मम तन्वते ॥ ३७॥

 चुलुकितेति ॥ गगने गच्छद्भिर्भृङ्गैरुदबिन्दुभिरिव नभसि शुभ्यते दीप्यते । किंभूतैरुदबिन्दुभिः-चुलुकः कृतश्चुलुके धृत्वा पीतस्तमःसिन्धुस्तिमिरसमुद्रो येन तस्य बिसिनीबन्धोः पद्मिनीमित्रस्य सूर्यस्य करात्किरणादेव हस्तादद्रन्ध्रेभ्योऽङ्गुल्यन्तरालविवरेभ्यश्च्युतैर्गलितैः । चुलुकेन पीततमःसिन्धोरुपरिवर्तमानस्य रवेः कराङ्गुलीविवरेभ्योऽधो गलिताः कृत्स्ना जलबिन्दव इव भृङ्गा गगने शोभन्त इत्यर्थः । चुलुकितेति करविशेषणं वा । अनुपदं गगनात्सकाशात्कमलानि प्रति पातानन्तरं शतदलाख्यान्यतिस्थूलानि कमलानि तेषां मधुस्रोतसो मकरन्दप्रवाहस्य कच्छद्वयी मकरन्दार्द्रभागद्वयं यत्तटद्वयं तस्याः परिरम्भणात्संश्लेषादुभयतस्तत्र लगनाद्धेतोरमी भृङ्गा अदः- पङ्काशङ्काममुष्य पीतस्य तमःसिन्धोरधःस्थितावशिष्टकर्दमसंभावनां मम वैतालिकस्य मम तन्वते विस्तारयन्ति । सकलेऽपि तमोजले पीतेऽवशिष्टतदीयपङ्क इव भृङ्गाः शोभन्त इत्यर्थः । अमुष्या मकरन्दप्रवाहकच्छद्वय्याः पङ्क इति वा । प्रवाहतटद्वये पङ्को युक्तः। भृङ्गाश्च मकरन्दस्योपरि नोपविशन्ति, किंतु-अभित इति तेषां जातिः। प्रातःकालो जातः, अन्धकारः साकल्येन विनष्टः, भ्रमरास्तरुनीडेभ्यो निर्गत्य गगनमुड्डीय मधुपानार्थं कमलान्युद्दिश्यायान्तीति भावः । चुलुकित इति तत्करोति-' इति ण्यन्तात्क्तः। शुभ्यते, 'शुभङ् दीप्तौ' भावे यक् ॥

घुसृणसुमनःश्रेणीश्रीणामनादरिभिः सरः-
 परिसरचरैर्भासां भर्तुः कुमारतरैः करैः।
अजनि जलजामोदानन्दोत्पतिष्णुमधुव्रता-
 वलिशबलनाद्गुञ्जापुञ्जश्रियं गृहयालुभिः ॥ ३८ ॥

 घुसृणेति ॥ घुसृणसुमनसः कुङ्कुमकुसुमानि तासां श्रेणिस्तस्याः श्रीणां कान्तीनामनादरिभिरनादरणशीलैस्ताभ्योपि रक्ततरैः सरसः परिसरचरैस्तीरसंचरणशीलैः कुमारतरैरतिबालैर्भासां भर्तुः करैः सूर्यकिरणैर्जलजामोदो गगनावगाहिकमलपरिमलस्तद्विषय आनन्दस्तेनोत्पतिष्णुरुत्पतनशीला मधुव्रतावलिस्तया शबलनान्मिश्रणाद्धेतोर्गुञ्जापुञ्जश्रियमर्धरक्तार्धकृष्णगुञ्जाराशिशोभां गृहयालुभिर्ग्रहणशीलैरजनि । तत्सदृशैर्जातमित्यर्थः । बाला अपि सुमनसां धीराणामप्यनादरिणो भवन्ति । बाला अपि रक्तकरा भवन्तीति केचित् । अजनि, भावे चिण् । उत्पतिष्णुः, 'अलंकृञ्-' इतीष्णुच् । शवलनं, 'तत्करोति-'इति ण्यन्तान्नपुंसके भावे ल्युट् ।

रचयति रुचिः शोणीमेतां कुमारितरा रवे-
 र्यदलिपटली नीलीकर्तुं व्यवस्यति पातुका ।