पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५६
नैषधीयचरिते


अजनि सरसी कल्माषी तद्भ्रुवं धवलस्फुट-
 त्कमलकलिकाषण्डैः पाण्डूकृतोदरमण्डला ॥ ३९ ॥

 रचयतीति ॥ यद्यस्माद्रवेः कुमारितरातिबाला रुचिरेतां सरसीं शोणीं रक्तवर्णां रचयति । यस्माच्च कमलमकरन्दास्वादार्थं पातुका अलिपटली भृङ्गश्रेणी स्वसंबन्धादेतां नीलीकर्तुं व्यवस्यति । यतश्चेयं धवलानां स्फुटन्तीनां विकसन्तीनां कमलकलिकानां षण्डैः समूहैः पाण्डूकृतमुदरमण्डलं मध्यदेशो यस्याः सैतादृशी । तस्माद्भ्रुवं निश्चितमियं सरसी कल्माषी कर्बुरेवाजनि जाता। रक्तकृष्णश्वेतवर्णमिश्रणात्कर्बुरत्वोत्प्रेक्षा । ध्रुवमुत्प्रेक्षायाम् । बालातपो जातः, भ्रमराः परितो भ्रमन्ति, कमलानि विकसितानीति भावः । 'चित्रं किर्मीरकल्माष-' इत्यमरः । शोणीं, 'शोणात्प्राचाम्' इति ङीष् । कुमारितरा, 'घरूप-'इति ह्रस्वः । पटलकल्माषौ गौरादी।

कमलकुशलाधाने भानोरहो पुरुषव्रतं
 यदुपकुरुते नेत्राणि श्रीगृहत्वविवक्षुभिः ।
कविभिरुपमानादप्यम्भोजतां गमितान्यसा-
 वपि यदतथाभावान्मुञ्चत्युलूकविलोचने ॥ ४० ॥

 कमलेति ॥ कमलमात्रस्य कुशलाधाने आनुकूल्याचरणे भानोरहो अत्याश्चर्यरूपं पुरुषसंबन्धि व्रतं नियमः। अङ्गीकृतपरिपालनशीलत्वमितियावत् । यं दृष्ट्वाऽहो आश्चर्यरूपः पुरुष इति सर्वे वदन्ति । कुतो ज्ञातमत आह—यद्यस्मात्तात्त्विकानि कमलानि विकासयतीति किं वाच्यम् । किंतु श्रियोः कान्तिलक्ष्म्योर्गृहत्वं स्थानतां विवक्षुभिर्वतुमिच्छुभिर्व्यासवाल्मीकिकालिदासादिभिः कविभिरुपमानात्किंचिच्छ्रीगृहत्वादिगुणसादृश्यादप्यम्भोजतां कमलत्वं गमितानि प्रापितान्यारोपितकमलत्वान्यपि नेत्रकमलानीति निर्दिष्टानि लोकनेत्राण्यसौरविरुपकुरुते उन्मीलयति।उदित्वरे हि सूर्ये लोकनेत्राण्युन्मीलन्ति । अथ च-घटाद्यर्थग्रहणसमर्थानि करोति।यत आलोकसहकृतमेव चक्षुः पदार्थग्रहणसमर्थम् । यदप्यतथाभावाच्छ्रीगृहत्वाभावात्कविभिः कमलत्वेनानुक्तत्वादुलूकविलोचने नोन्मीलयति, न च पदार्थान्ग्राहयति । यत्रोलूकस्य दृष्टिस्तत्रालक्ष्मीरिति लोकप्रसिद्धेस्तन्नेत्रयोः श्रीगृहत्वं दूरं निरस्तम् । सूर्येण कमलानि कमलतुल्यानि लोकनेत्राणि विकास्योलूकनेत्राणि कमलगुणयोगाभावादविकास्यान्वयव्यतिरेकाभ्यां स्वप्रतिज्ञा सत्या कृता । एवंविधः सत्यप्रतिज्ञः कोपि नास्तीत्यर्थः । कमलानि विकसितानि, सर्वोपि लोकः प्रबुद्धः, कौशिकनेत्रे च निमीलिते । प्रातःकालो जात इति भावः । श्रीगृहत्वविवक्षुभिः, 'द्वितीया' इति योगविभागात्समासः। उपमितिरुपमानं । नपुंसके भावे ल्युट् । उपमीयतेऽनेनेत्युपमानं सादृश्यमिति वा ॥

यदतिमहती भक्तिर्भानौ तदेनमुदित्वरं
 त्वरितमुपतिष्ठस्वाध्वन्य त्वमध्वरपद्धतेः ।