पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५९
एकोनविंशः सर्गः।


शमनयमुनाक्रोडैः कालैरितस्तमसां पिबा-
दपि यदमलच्छायात्कायादभूयत भास्वतः ॥ ४५ ॥

 बुधेति ॥ तनुजन्मनोऽपत्यस्य तनौ वर्तमानः कालिमा श्यामत्वं किल प्रसिद्धं निश्चितं वा पितुः पित्रोर्वाः शितिहरिद्वर्णादीनां कृष्णनीलवर्णपत्रशाकादीनां य आहारो भक्षणम् । शिति हरिद्वर्णं यदाद्यमदनीयं पत्रशाकादि वा । तस्माज्जातः 'स श्यामो मै(मि)त्रातनयत्वात्' इत्यादि बुधानामुदयनाचार्यादीनामियं कथा गोष्टी तथ्यैव सत्यैव । यद्यस्माद्धेतोर्भास्वत इतः प्रत्यक्षदृश्यादमलच्छायादुज्ज्वलकान्तेः शुक्लभास्वरादपि तमसां पिबात्तमिस्त्रैकाहारात्कायाच्छमनयमुनाकोडैर्यमयमुनाशनैश्चरैः कालैः श्यामैरभूयतोत्पन्नम् । सूर्यकायस्योज्ज्वलत्वेपि श्यामतमतमीतमिस्राहारपरिणतिवशाद्यमादिभिरपत्यैः श्यामैर्यतो जातम् । तस्मादियं पण्डितकथा सत्यैवेत्यर्थः । सर्वमपि तमः सूर्येण नाशितमिति भावः। आद्यम् , अदेः 'ऋहलोर्ण्यत्' । काली च कालौ चेति 'पुमान्स्त्रिया' इत्येकशेषः । तमसां कर्मणि षष्ठी । अभूयत भावे तङ् । 'क्रोडः कालोऽसित: पङ्गुर्मन्दश्छायासुतः शनिः' इत्यमरशेषः[१]

अभजत चिराभ्यासं देवः प्रतिक्षणदात्यये
 दिनमयमयं कालं भूयः प्रसूय तथा रविः।
न खलु शकिता शीलं कालप्रसूतिरसौ पुरा
 यमयमुनयोर्जन्माधानेऽप्यनेन यथोज्झितुम् ॥ ४६ ॥

 अभजतेति ॥ अयं रविर्देवः क्षणदा रात्रिस्तस्या अत्यये प्रत्यूषं प्रति । रात्र्यवसान इत्यर्थः । दिनरूपं कालं त्रुट्यादिलक्षणसमयम् , अथ च तद्रूपं श्यामं वस्तु भूयो बहुतरं यथा तथा पौनःपुन्येन वा प्रसूयोत्पाद्य चिरं बहुकालमभ्यासं तथा तेन प्रकारेणाभजताशिश्रियत् । यथा येन प्रकारेण पुरा पूर्वं कालः प्रसूतिर्यस्य, अथ च-काली श्यामा प्रसूतिर्यस्यैवंभूतोऽसौ सूर्यः । यमयमुनयोरपि प्रसविष्यतोर्जन्माधाने जन्मार्थं बीजक्षेपसमयेऽप्यनेन चिराभ्यासेन हेतुना शीलं कालोत्पादनस्वभावमुज्झितुं खलु निश्चितं न शकिता न समर्थो भविता। कालप्रसूतिस्वभावः सूर्यः स्वभावस्य दुरतिक्रमत्वात्तावपि कालावुदपादयदित्यर्थः । उदयमानेन सूर्येण दिवसः कृत इति भावः । प्रातःकाले क्रियमाणोऽभ्यासः पटुतरो भवति। चिराभ्यासम्, मयूरव्यंसकादित्वात्समासः। यद्वा--अकारान्तस्य चिरशब्दस्य 'अत्यन्तसंयोगे च' इति समासः। प्रतिक्षणदात्यये वीप्सायामव्ययीभावे 'नाव्ययीभावात्-' इति सुपो न लुक् । 'तृतीयासप्तम्योः' इत्यम् 'अत्ययम्'इति पाठे । कालप्रसूतिः, पक्षे पुंवत्[२]


  1. 'अत्र शमनादिकालिम्नस्तत्पितृतिमिरभार(राहार)परिणतिर्पूवकत्वोत्प्रेक्षा' इति जीवातुः।
  2. अत्र कालशब्दे वाच्यप्रतीयमानयोरभेदाध्यवसायेन भगवतो भानोः प्रत्यहं कालप्रसूत्यभ्यासादपत्येष्वपि शमनयमुनादिषु कालप्रसवितृत्वमुत्प्रेक्ष्यते, तत्र कालयोः कृष्णानेहसोरभेदाध्यवसाय इति तयोरेकत्वेनात्र संकरः इति जीवातुः।