पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६०
नैषधीयचरिते


रुचिरचरणः सूतोरुश्रीसनाथरथः शनि
 शमनमपि स त्रातुं लोकानसूत सुताविति ।
रथपदकृपासिन्धुर्बन्धुर्दृशामपि दुर्जनै-
 र्यदुपहसितो भास्वान्नास्मान्हसिष्यति कः खलः ॥ ४७ ॥

 रुचिरेति ॥ सुजनैरेवंभूतो यो भास्वानिति संस्तुतः दुर्जनैर्यद्यस्मादेवमुपहसितः, तस्मादतितुच्छान्परवर्णनोपजीविनः को नाम खलो नोपहसति, अपि तु सर्वोऽप्युपहसत्येव । यथा-उदिते सूर्ये सद्भिः सूर्यस्यार्हणा क्रियते, तथा खलैर्न । एवं तुच्छा एते स्वोदरभरणार्थं यत्किं चिद्वदन्तीत्यस्माकं खलैर्निन्दायां कृतायां भवादृशै राजशिरोमणिभिरस्माकमर्हणा क्रियत एवेत्यर्थः। एवं कथं स्तुतः कथमुपहसित इत्यत आह-स सूर्यः रुचिराश्चरणा लक्षितलक्षणया किरणा यस्य, तथा-सूतस्यारुणस्योर्व्या महत्या श्रिया, सूता सूर्येणैव प्रसूता उर्वी श्रीस्तया सनाथोऽलंकृतो रथो यस्य सः । तथा-शनिं, शमनमपि शनैश्चरदण्डधरौ सुतौ लोकांस्त्रातुमसूत शनिर्हि श्रुत्यादिसिद्धया गृहेषु लोकपालतया लोकाव्रक्षति, यमोऽपि दुष्टादुष्टयोर्निग्रहानुग्रहौ कुर्वन् धर्माधर्माचरणप्रवृत्तिनिवृत्तिजननद्वारा रक्षति । एतादृशौ परोपकारपरौ पुत्रौ प्रासूत । तथा-रथपदानामनाथानां चक्रवाकानां कृपासिन्धुर्दयासमुद्रः, रथस्य पदेन व्यवसायेन गत्या जगतो दयासमुद्रो वा । तथा -सकलपदार्थग्रहणसहकार्यालोकसंपादनद्वारा दृशां सर्वजननेत्राणां बन्धुर्मित्रम् । एवंभूतः सुन्दरः परोपकारकरणैकस्वभावोऽपीति स्तुतिपक्षः॥

 रुचिस्तेजोरूपः। तापकर इति यावत् । तथा-अचरणश्चरणरहितः, यद्वा-विपरीतलक्षणया रुचिरौ चरणौ यस्य, पुराणादौ चरणाङ्गुल्यादिध्याने कुष्ठादिदुष्टफलश्रवणात् । ध्यानेऽप्यचरण एव सूर्यः, विश्वकर्मणा कुन्द आरोपितस्य सूर्यस्य तेजसां दुःसहत्वाच्चरणाकारो न निर्मित इति वा । अन्धं प्रति सुनेत्र(त्व)वचनवदचरणस्यापि रुचिरचरणत्वोक्त्योपहासः। तथा-सूतस्यानूरोः सारथेरूरुशोभया सनाथो रथो यस्य स इत्यपि विरुद्धलक्षणा । तथा-शनेः क्रूरग्रहत्वाच्चिरकालभोग्यदुःखदत्वात्' यमस्यापि जगत्प्राणहरणशीलत्वात् , परपीडाहरणैकस्वभावौ शनिशमनौ पुत्रौ लोकांस्त्रातुमसूतेत्यपि विरुद्धलक्षणा। तथा तिर्यग्योनिपक्षिविशेषचक्रवाकाणामेव दयासिन्धुः नान्येषां तापकरत्वात् । तथा-दृशामेव बन्धुः, नान्येषाम् । यद्वा-तेजोभरेण दृष्टिं प्रति घातकारित्वादबन्धुरपि दृशां बन्धुरित्यपि विरुद्धलक्षणेत्युपहासपक्षः। एवंभूतः सूर्यः समुदेतीति भावः[१]

शिशिरजरुजां धर्मं शर्मोदयाय तनूभृता-
 मथ खरकरश्यानास्यानां प्रयच्छति यः पयः।


  1. 'कैमुत्येनार्थान्तरापादनादर्थापत्तिरलंकारः' इति जीवातुः