पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
द्वितीयः सर्गः।

 वहत इति ॥ स खगो हंसः सरसः सकाशान्नलस्य करं पुनर्ययौ । कस्मादिव-कोकनदभ्रमादिव । रक्तोत्पलभ्रान्तेरिव । सरसः पल्वलस्य कोकनभ्रमादिवेति वा । नलकरस्य रक्तत्वात्कोकनभ्रान्तिः । रक्तोत्पलं च हंसानां प्रियमित्युत्प्रेक्षा । किंभूतस्य नलस्य सरसश्च-बहूनि शिवसंबन्धीनि लक्ष्माणि त्रिपुण्ड्रादीनि यस्य तस्य भावस्तत्ता तां वहतो धारयतः। शिवे भक्तिर्येषां ते शैवाः, तत्संबन्धीनि वा । सरःपक्षे-बहूनि शैवलानि यस्यां सा बहुशैवला मा पृथ्वी यस्मिंस्तस्य भावस्तत्ता तां वहतः। शिवं कल्याणं तत्संबन्धीनि शुभसूचकानि लक्ष्माणि सामुद्रिकोक्तानि मत्स्यादीनि यस्येति वा । किंभूतं करम्-धृतं रुद्राक्षाणां मधुतुल्यं समीचीनं (वा) व्रतं नियमो येन, शैवत्वाद्रुद्राक्षा एव मधुव्रता भ्रमरा येनेति वा । रुद्राक्षधारणं नियमेन करोति, अन्यचिह्नधारणे नियमो नेति न पौनरुक्त्यम् । कोकनदमपि रुद्राक्षसदृशभ्रमरयुक्तम् । न क्षमन्त इत्यक्षमाः, रुद्रस्य अक्षमाः। कर्मषष्ट्या समासः। तान्धुनोति कम्पयति रुद्राक्षमधु तच्च तद्व्रतं च । धृतं तद्येनेति वा । शिवद्रोहिपराभवकारिणमित्यर्थः । अनेन पौनरुक्त्याशङ्कापि निरस्ता । रवणं रुत् धृता रुद्यैस्ते धृतरुतः सशब्दाः, रः अग्निस्तद्वदक्षीणि पिङ्गलानि नेत्राणि येषां ते राक्षाः एवंभूता भ्रमरा यत्रेति वा । अर्थात्कोकनदविशेषणम् । रशब्दोऽग्निवाची आगमशास्त्रे । तथा 'रः पावके च तीक्ष्णे च' इति विश्वः । शैवेत्यत्र 'तस्येदम्' इति 'भक्तिः' इति वाण् । रुदिति संपदादित्वात्विम् । राक्षेति 'बहुव्रीहौ सक्थ्यक्ष्णोः-' इति षच् । रुद्राक्षमान्धूनोतीति दीर्घान्तात् 'क्विपू च' इति क्विप् । व्रतविशेषणत्वान्नपुंसकत्वाध्ह्रस्वत्वम् ॥

पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः ।
अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः ॥ ७ ॥

 पतग इति ॥ एतस्य महीभुजो राज्ञो भुजं भजन्नाश्रयन्स पतगो हंसः अतुलमनुपमं कुतूहलं विदधे चकार । पुनरागमनं कौतूहले हेतुः । नु वितर्के । चिरकालं लालनात्सान्त्वनादतिविश्रम्भमतिविश्वासमवापितः प्रापित इव । अनु पश्चादेतस्य भुजं भजनिति वा । सन्निति पाठे अवापितः सन् । अनु पश्चात् । अन्योऽपि बहुकालं पोषितो विश्वासं प्राप्तः स्वामिनं स्वगुणेन कुतूहलिनं करोति ॥


नृपमानसमिष्टमानसः स निमजत्कुतुकामृतोर्मिषु ।
अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत ॥ ४ ॥

 नृपेति ॥ इष्टं मानसं सरो यस्य स हंसः अवोचदुवाच । किं कुर्वन् कुतुकामृतोर्मिषु कौतूहललक्षणामृततरङ्गेषु निमजदुडन्नृपमानसं नलान्तःकरणमवलम्बिते कर्णशष्कुल्यावेव कलस्यौ येन एवंविधं रचयन् । सावधानं कुर्वन्नित्यर्थः । राज्ञो मनः स्व-


१ 'अत्र बहुशैवल-' इत्यादौ शब्दश्लेषः तदनुप्राणिता 'रुद्राक्षमधुव्रतम्' इत्युपमागतोत्प्रेक्षा चेयं कोकनदभ्रमादिव इत्युत्प्रेक्षेति संकरः।' इति जीवातुः। २ 'अत्रोत्प्रेक्षावृत्त्यनुप्रासयोः शब्दार्थालंकारयोस्तिलतण्डु लवत्संसृष्टिः । 'एकद्वित्र्यादिवर्णानां पुनरुक्तिर्भवेद्यदि । संख्यानियममुल्लङ्घ्य वृत्त्यनुप्रास ईरितः ॥' इति' इति जीवातुः। ९