पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६१
एकोनविंशः सर्गः

जलभयजुषां तापं तापस्पृशां हिममित्ययं
 परहितमिलत्कृत्यावृत्तिः स भानुरुदञ्चति ॥ ४८ ॥

 शिशिरेति ॥ सोयं भानुरुदञ्चत्युदेति । स कः-यः शिशिरतौ शिशिरं हिमं तस्माजाता रुक् पीडा येषां तेषां तनूभृतां जनानां शर्मणः सुखस्योदयाय प्राप्तये वसन्तनिदाघसंबन्धिनं धर्ममुष्णं क्रमेण प्रयच्छति, अथानन्तरं च वसन्तनिदाघसंबन्धिनः खरास्तीक्ष्णतराः कराः सूर्यकिरणास्तैः श्यानं शुष्कं म्लानमास्यं मुखं येषां तेषां देहिनां सुखाय पयो वर्षासंबन्ध्युदकं दत्ते, ततो जलभयजुषां वर्षासंबन्धिजलभीतानां तापं दत्ते, ततः-तापस्पृशां शारदतापवतां देहिनां हेमन्ते हिमं दत्ते, एवं प्रकारेण परेभ्यो यद्धितं तस्मिन्विषये मिलन्ती पौनःपुन्येन घटमाना कृतेः शीततापहिमदानरूपपुरुषव्यापारस्यावृत्तिरावर्तनं यस्य । यद्वा-कृत्यानां शीतादिदानरूपाणां कार्याणामावृ- त्तिर्यस्यैवंभूतः । परोपकारपरः सूर्य उदेतीत्यर्थः । श्यानेति द्रवमूर्तिस्पर्शवाचित्वाभावात्संप्रसारणाभावः। 'श्योस्पर्शे' इति निष्ठानत्वम् । परहितेति, 'चतुर्थी तदर्थार्थ-'इति समासः। 'कृञः श च' इति योगविभागात्क्तिनि कृतिः, चकारात्क्यपि तुकि च कृत्या। पक्षे-अर्हार्थे 'विभाषा कृवृषोः' इति क्यपि [१] तुक् ॥

इह न क[२]तमश्चित्रं धते तमिस्रततीर्दिशा-
 मपि चतसृणामुन्सङ्गेषु श्रि [३] ता धयतां क्षणात् ।
तरुशरणतामेत्य च्छायामयं निवसतमः
 शमयितुमभूदानैश्वर्यं यदयमरोचिषाम् ॥ ४९ ॥

 इहेति ॥ पूर्वादीनां चतसृणामपि दिशामुत्सङ्गेषु प्रान्तदेशेषु श्रिता वर्तमानास्तमिस्रततीस्तिमिरपरम्पराः क्षणाद्धयतां विनाशयतामप्यर्यम्णः सूर्यस्य रोचिषां तेजसां तरवः शरणं यस्य तद्भावं वृक्षतलवासित्वमेत्य प्राप्य निवसद्वर्तमानं छायामयं छायारूपं तमः शमयितुं विनाशयितुमानैश्वर्यमसामर्थ्यमभूदिति यत्, इहात्रासामर्थ्यविषये कतमः को नाम जनश्चित्रं विस्मयं न धत्ते । अपि तु सर्वोप्याश्चर्यं प्राप्नोत्येव । दिगन्तगताया अपि तिमिरपरम्परायाः संहारे येषां शक्तिस्तेषां रवितेजसा तरुतलमात्रस्थितं छायारूपं समीपवर्त्यपि तमः शमयितुमपि शक्तिर्नाभूदित्याश्चर्यमित्यर्थः । 'तनु'इति पाठे-तनुरल्पः शरीरं वा शरणं यस्य तद्भावं प्राप्य निवसत् । महदाश्रयेण स्थितमपि यो विनाशयितुं शक्नोति सोल्पाश्रयेण वर्तमानं शमयितुमपि न शकोतीत्याश्चर्यमेव । तरुच्छायामयं देहच्छायामयं वा तमो विहाय सर्वमपि तमः सूर्येण विनाशितमिति भावः । आनैश्वर्यम्, अनीश्वरस्य भाव इत्यर्थे 'न नपूर्वात्-' इति भावप्रत्ययनिषेधेऽपि ब्राह्मणादिष्वनीश्वरशब्दस्य पाठात्ष्यञि 'नञ: शुचीश्वर-' इति पक्षे उभयपदवृद्धिः॥


  1. 'क्रियासमुच्चयोऽलंकारः' इति जीवातुः'
  2. 'कतरेति पाठोपि साधीयान्' इति सुखावबोधा ।
  3. 'स्थिता' इति पाठः सुखावबोधासंमतः ।