पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६२
नैषधीयचरिते

जगति तिमिरं मूर्च्छामब्जव्रजेपि चिकित्सतः
 पितुरिव निजाद्दस्रावस्मादधीत्य भिषज्यतः ।
अपिच शमनस्यासौ तातस्ततः कि[१] मु नौचिती
 यदयमदयः कह्लाराणामुदेत्यपमृत्यवे ॥ ५० ॥

 जगतीति ॥ दस्रौ नासत्यौ निजात्स्वीयादस्मात्पितुः सूर्यादधीत्येवायुर्वेदं पठित्वेव भिषज्यतः स्वर्लोकचिकित्सां कुरुतः । किंभूतात्पितुः-जगति वर्तमानं तिमिरम्, अथ च-वस्तुदर्शनासामर्थ्यजनकं नेत्ररोगविशेषं चिकित्सतो नाशयतः। आयुर्वेदोक्तप्रतीकारेण शमयतः। तथा-अब्जव्रजे कमलख(ष)ण्डे वर्तमानां मूर्छां संकोचमपि नाशयतः, अथ च 'अप एव ससर्जादौ-' इति वचनादपां मूलभूतत्वादब्जव्रजे लोकसमूहे वर्तमानां मूर्च्छां वैचित्त्यध्वस्तचैतन्यभावरूपं मोहमपाकुर्वतः । उपचारचतुरात्कल्याणपाणेर्वैद्यादधीत्यैव हि राजवैद्यो भवति, तस्माद्वैद्यात्स्वपितुरेव वैद्यकमधीत्य ताभ्यामिन्द्रवैद्यत्वं प्राप्तमित्यर्थः । अपि च किंच सर्वभूतानि शमयति नाशयतीति शमनो यमस्तस्यासौ सूर्यो यस्मात्तातः पिताऽतस्तस्मात्कह्लाराणां कुमुदानामपमृत्यवे संकोचाय, अथ च-अकालमरणायोदेति । यतोऽयं सूर्योऽदयो निष्कृपः, साऽस्य सूर्यस्य नौचिती किमु, अपित्वेषाऽस्यौचित्येव । कारणगुणप्रक्रमेणैव कार्ये गुणारम्भाददयताऽपमृत्युदायिता च यमेनाप्यस्मात्स्वपितुरेव सकाशात्पठितेत्यर्थः । उदयता सूर्येण तमो नाशितम् , कमलान्युन्मीलितानि, कुमुदानि मुकुलितानीति भावः । पितुः 'आख्यातोपयोगे' इत्यपादानत्वम् । भिषज्यतः कण्ड्वादिः । 'तपति'इति वा पाठः॥

उडुपरिवृढः पत्या मुक्तामयं यदपीडय-
 द्यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती ।
तदुभयमतः शङ्के संकोचितं निजशङ्कया
 प्रसरति नकार्के कर्कन्धूफलारुणरोचिषि ॥ ५१ ॥

 उड्विति ॥ अयमिदानीमस्तं जिगमिषुरुडुपरिवृढश्चन्द्रः सायमुदितः सन् अस्तं गतेन पत्या सूर्येण मुक्तां वियोगिनीं भानोर्भार्यां बिसिनीं पद्मिनीं यद्यस्माद्गतरात्रावपीडयत्संकोचितवान् । अथ च-करैर्दूषितवान् । यदपि यस्साच्चन्द्रे पद्मिनीं पीडयति सति कुमुद्वती कुमुदविकासव्याजेन रात्रौ जहास । अत एव हेतोस्तदुभयं चन्द्रकुमुदिनीरूपं द्वयमिदानीं कर्कन्धूफलचत्पक्कबदरवत्कोपादिवारुणरोचिषि रक्तकान्तौ नवार्के तरुणादित्ये प्रसरति प्रकर्षेणागच्छत्युदयति सति निजशङ्कया स्वकृतानाचारनिमित्तभयेनेव प्रयोजकेन संकोचितं संकोचं प्रापितम् । निष्प्रभीकृतमित्यर्थः । इत्यहं शङ्के मन्ये । सूर्य उदितः, पद्मिनी च विकसिता, चन्द्रो निष्प्रभोऽस्तमेति, कुमुदिनी संकुचितेति


  1. किमनौचितीति पाठः जीवातुसुखावबोधासंमतः ॥