पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६३
एकोनविंश: सर्गः।

भावः । अन्यत्राप्युक्तं प्रमेयं बोद्धव्यम् । संकोचितमिति ण्यन्ताकर्मणि निष्ठा । अन्यथा व्याख्याने संकुचितमित्येव स्यात् । तदुभयं निजशङ्कया करणभूतया स्वयमेव संकुचितुं कृतारम्भमिति वा व्याख्येयम् । क[१]र्कन्धूकुणेति पाठश्चिन्त्यः । ग्रन्थविस्तरभयात्साध(नि)कादि नोक्तम् । सुबुद्धिभिर्विविच्य बोद्धव्यम् ॥

श्रुतिमयातनोर्भार्जानेऽवनरपराध्वना
 विहरणकृतः शाखाः साक्षाच्छतानि दश त्विषाम् ।
निशि निशि सहस्राभ्यां दृग्भिः शृणोति सहस्वराः
 पृथगहिपतिः पश्यत्यस्याक्रमेण च भास्वराः ॥ ५२ ॥

 श्रुतीति ॥ अहिपतिः शेषो ज्योतिःशास्त्रानुसारेणावनेर्भूमेरधराध्वनाधस्तनेन मार्गेण पातालमार्गेण रात्रौ विहरणकृतः परिभ्रमतः, तथा-श्रुतिमयी वेदरूपा तनुर्देहो यस्य तस्यास्य भानोस्त्विषांदश शतानि एकसहस्रमेव दश शतानि कठकण्वादिशाखा:निशि रात्रौ सहस्रफणत्वात्प्रतिफणं च नेत्रद्वयसद्भावाद्द्वाभ्यां सहस्राभ्यां दृग्भिः सहस्रद्वयपरिमिताभिर्दृष्टिभिरक्रमेण युगपत्पृथक्चक्षुःश्रवस्त्वात्साक्षाच्छृणोति पश्यति चेत्यहं जाने। क्रियाद्वये क्रमेण हेतुद्वयम्-यतः सहस्वराः स्वरूपेणोदात्ततयोदात्तादिस्वरैः सह वर्तमानाः। स्वराणां शब्दरूपत्वाच्छृणोति । तथा-भास्वराः शुक्लभास्वररूपाः। ततः साक्षात्पश्यति च । रात्रौ पातालगामित्वात्तत्र च शेषस्य वर्तमानत्वाद्वेदमयशरीरस्य किरणसहस्ररूपं शाखासहस्रं शेषो नेत्रसहस्रद्वयस्य सत्त्वाद्युगपत्पृथगेकेन नेत्रसहस्रेण शृणोति, द्वितीयेन च पश्यतीति युगपत्पृथक् श्रवणदर्शनाभ्यामेव शेषनेत्रसहस्रद्वयस्य सार्थक्यमभूदित्यर्थः । 'श्रुतिमयतरोः'इति पाठे-वेदवृक्षरूपस्य वृक्षस्य शाखा युक्ताः। अध्वना बलिसद्मनेति पाठे-'बलिसद्म रसातलम्' इत्यभिधानात्स एवार्थः । दशशतानीति काकाक्षिवदुभयत्रापि संबध्यते । सहस्वराः, 'वोपसर्जनस्य' इति पाक्षिकत्वात्सभावाभावः[२]

बहुनखरता येषामग्रे खलु प्रतिभासते
 कमलसुहृदस्तेऽमी भानोः प्रवालरुचः कराः।
उचितमुचितं जालेष्वन्तःप्रवेशिभिरायतैः
 कियदवयवैरेषामालिङ्गिताङ्गुलिलङ्गिमा ॥ ५३ ॥


  1. 'कर्कन्धूः पक्कबदरीफलमित्यर्थः । तत्कणावदरुणरोचिषि' इति जीवातुः
  2. 'जाने इत्युत्प्रेक्षा । रूपकसंकीर्णा चेयमुत्प्रेक्षेति व्यक्तमेव । एकेन दृक्सहस्रेण शृणोति,अपरेण दृक्सहस्रेण पश्यतीति विश्वेश्वरभट्टारकव्याख्यानं चिन्त्यम् । दृशां प्रत्येकमुभयशक्तियुक्तानां शक्तिप्रविभागयोगात् । तस्माद्राहकस्योभयशक्तिमत्त्वात् , ग्राह्यस्य च तेजःशब्दोभयात्मकत्वात्सर्वाभिरेव दृग्भि: सर्वाश्च शाखा युगपत्पश्यति शृणोति चेति रमणीयम्' इति जीवातुः।