पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६९
एकोनविंशः सर्गः।

किम् । प्रभातं जातं, काकादयः शब्दायन्ते इति भावः । सूत्रवार्तिकयोर्महाभाष्येणैवार्थसंपादनात्फणिभवेत्युक्तम् । स्थानं प्रसङ्गः सोऽस्त्यनयोरिति स्थानिनौ, अत इनिः॥

दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत्कोप्यधीती कपोतः
 कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेषभूषानुयातः ।
सर्वं विस्मृत्य दैवात्स्मृतिमुषसि गतां घोषयन्यो घुसंज्ञां
 प्राक्संस्कारेण संप्रात्यपि धुवति शिरः पट्टिकापाठजेन ॥६१॥

 दाक्षीति ॥ अयमाकर्ण्यमानशब्दः कोपि कश्चित्कपोतो घूकलक्षणः पक्षी दाक्षीपुत्रस्य दक्षगोत्रसंजातमातृकस्य पाणिनेस्तन्त्रे पाणिनीयव्याकरणेऽधीतं पठनमस्यास्तीति पठितपाणिनीयव्याकरणोऽभवत् । अनेकेषु पाणिनिशिष्येषु मध्ये कोपि कपोतरूपः शिष्योऽभूत् । ध्रुवमित्यहमुत्प्रेक्षे । किंभूतः-तदध्ययनवशादेव कण्ठे देवादिशब्दौघानां सिद्धये उदाहरणसाधनाय क्षता धृष्टा बह्वी कठिनी खटिका तस्याः शेषोऽङ्गुलीलग्नोऽवशिष्टभागस्तद्रूपया भूषयानुयातः संबद्धः। खटिकाशेषरेखया कण्ठेऽलंकृत इत्यर्थः । बाला हि पट्टिकादौ खटिकया लिखितं पठित्वा सरस्वतीवुद्ध्या सायं लिपिप्रोञ्छनाङ्गुलिलग्नखटिकादिरजसा कण्ठे रचयन्तीति । कपोतस्य धूसरे कण्ठे स्वभावेनैव धवला रेखा भवति । यः कपोतः सर्वमपि शास्त्रं विस्मृत्य दैवात्स्मृतिं गतामुषसि प्रातः स्मृतां 'दा धा ध्वदाप्' इति पाणिनिकृतां धुसंज्ञां पुनर्विस्मरणभिया घोषयन्पुनः पुनः पठन्सन भूयसि कालेऽतीतेऽपि संप्रत्यपि प्राक् काष्ठघटितपट्टिकालिखितसूत्रपाठादिपाठजेन संस्कारेण पटुतराभ्यासाहितवासनया शिरो धुवति । विस्मृतस्य प्रातः स्मृतिर्भवति । कपोताश्च प्रातर्घुशब्दं कुर्वन्ति, शिरश्च कम्पयन्ति । तस्मादियमुत्प्रेक्षा । बालाश्च श्यामासु काष्ठघटितपट्टिकासु खटिकादिलिखितं धवलाक्षरं सूत्रपाठाद्यावेशेन घोषयन्तः शिरः कम्पयन्ति । योपि विस्मृतं पुनः स्मरति सोपि शिरः कम्पयति । दक्षस्यापत्यम्, 'अत इञ्' इतीञि 'इतो मनुष्यजातेः' इति ङीष् । तन्त्रे 'क्तस्येविषयस्य कर्मणि' इति कर्मणि सप्तमी । अधीतमनेनेत्यधीती इष्टादेराकृतिगणत्वादिनिः । घोषयन् चौरादिकाद्धुषेः शता । धुवति, दीर्घात्तौदादिकात् 'धू कम्पे' इत्यस्माच्छस्य ङित्वाद्गुणनिषेधे उवङ् ॥

पौरस्त्यायां घुसृणमसृणश्रीजुषो वैजयन्याः
 स्तोमैश्चित्तं हरति हरिति क्षीरकण्ठैर्मयूखैः ।
भानुर्जाम्बूनदतनुरसौ शक्रसौधस्य कुम्भः
 स्थाने पानं तिमिरजलधेर्भाभिरेतद्भवाभिः॥ ६२ ॥

 पौरस्त्यायामिति ॥ जाम्बूनदतनुरुत्तमस्वर्णतुल्यस्वरूपोऽत एव शक्रसौधस्य वैजयन्ताख्यस्योपरिवर्ती सुवर्णकलशरूपाऽसा भानुः पौरस्त्यायां हरिति प्राच्यां दिशि कुङ्क-