पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७०
नैषधीयचरिते

मेन कुङ्कुमवद्वा मसृणा स्निग्धरक्ता या श्रीः शोभा तां जुषो भजन्त्या वैजयन्त्याः पताकायाः स्तोमैः संघरूपैः क्षीरयुक्तकण्ठैर्लक्षणयातिबालैर्मयूखैः कृत्वा चित्तं हरति । इन्द्रसौधस्योपरिवर्तमाना बालतराः सूर्यकिरणास्तदीयरक्तपताकासमूहा इव, सूर्यश्च स्वर्णकलश इव शोभत इत्यर्थः। राजादिप्रासादेषु हि रक्ता भूयस्यः पताकाः सुवर्णकलशाश्च वर्तन्ते । यतोऽयमिन्द्रसौधस्य स्वर्णकुम्भरूपः, अत एव-एतस्माद्भवाभिरुत्पन्नाभिर्भाभिः कर्त्रिभिः तिमिररूपोऽतिश्यामो जलधिस्तस्य पानं ग्रासेन तिरोधापनं तस्थाने नितरामुचितम् । कुम्भोद्भवो ह्यगस्त्यः पूर्वं समुद्रमधात् । अत एतासामपि भानुरूपकुम्भोद्भवत्वात्समुद्रपानं युक्तमित्यर्थः । सूर्य ऊर्ध्वमागतः, तिमिरं च सर्वं निरस्तमिति भावः। 'घुसृणसुमनः-' इति पाठे-कुङ्कुमकेसरश्रीजुष इत्यर्थः। 'तोकैः' इति पाठेतोकमपत्यम् , पताकाया अपत्यरूपैस्तत्सदृशैरित्यर्थः। पुरोदेशे भवा, दक्षिणापश्चात्पुरसस्त्यक्' 'किति च' इति वृद्धिः । 'कर्तृकर्मणोः कृति' इति कर्तरि प्राप्तापि षष्टी 'उभयप्राप्तौ कर्मणि' इति नियमेन व्यावर्तितत्वात्तिमिरजलधेरित्यत्रैव भवति, भाभिरित्यत्र तु कर्तरि तृतीयैव ॥

द्वित्रैरेव तमस्तमालगहनग्रासे दवीभावुकै-
 रुस्रैरस्य सहस्रपत्रसदसि व्यश्राणि घस्रोत्सवः ।
घर्माणां रयचुम्बितं वितनुते तत्पिष्टपिष्टीकृत-
 क्ष्मादिग्व्योमतमोघमोघमधुना मोघं निदाघद्युतिः ॥६३॥

 द्वित्रैरिति ॥ तमस्तमालानां तिमिररूपातिश्यामलतरूणां गहनस्य गाम्भीर्यस्यैव वनस्य वा ग्रासे विनाशे दवीभावुकैर्वनवह्नितां व्रजद्भिनिरल्पसंख्यैरेवास्य सूर्यस्योस्रै: किरणैः सहस्रपत्राणां सदस्याकरे घस्रोत्सवो दिनसंबन्धी हर्षो विकासो यस्माद्यश्राणि वितीर्णः । तत्तस्मात्कारणान्निदाघद्युतिः सूर्यः घर्माणामुष्णानां किरणानामोघं समूहमधुना द्वित्रैरेव करैस्तमोविनाशे पद्मविकासे च जाते रयचुम्वितं वेगवत्तरं मोघं निष्फलं वितनुते विस्तारयति । किंभूतम्-अत एव--पिष्टस्य पिष्टं पिष्टपिष्टमतत्तत्कृतं पिष्टपिष्टीकृतमत्यन्तचूर्णीकृतं क्षमादिग्व्योम्नां भूदिग्गगनानां तम एवाघं मालिन्यात्पातकं येन । तिमिरविनाशस्य कमलविकासस्य च द्वित्रैरेव किरणैः कृतत्वादन्यकिरणैस्तकरणे पिष्टपेषणात्तद्वैयर्थ्यमित्यर्थः । 'दवदावौ वनारण्यवह्नि,' 'किरणोत्रमयूख-' इत्यादि, 'घस्रो दिनाहनी-' इत्याद्यमरः । द्वौ वा त्रयो वा द्वित्राः, 'संख्ययाऽव्यया-' इति बहुव्रीहौ 'बहुव्रीहौ संख्येये-' इति डच् । दविभावुकैः, भुवो 'लषपतपद-' इति ताच्छील्यादावुकञि अवा दवा भावुका इत्यर्थे च्चिः। व्यश्राणि, दानार्थाच्छ्रणतेः चौरादिकाच्छ्राणयतेर्वा कर्मणि चिण् । चुम्बितम् , पिष्टीकृतमिति च कर्मणि भावे च निष्ठा॥

दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानु-
 र्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम्।