पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
नैषधीयचरिते

वचनश्रवणोत्सुकं कुर्वन्नुवाचेति भावः । अन्योऽप्यूर्मिषु मज्जत इष्टस्य कलसमवलम्बनं दत्ते । कर्णाकारो वाद्यविशेषः शष्कुली। मन एव मानसम् । प्रज्ञादित्वादण् । 'मानसं सरसि स्वान्ते' 'अमृतं यज्ञशेष स्यात्पीयूषे सलिले' इति विश्वः। कलसीकम् 'नद्यृतश्च' इति कप् । 'न कपि' इति ह्रस्वनिषेधः ॥

किमवोचदित्याह-

मृगया न विगीयते नृपैरपि धर्मागममर्मपारगैः ।
स्मरसुन्दर मां यदत्यजस्तव धर्मः सदयोदयोज्ज्वलः ॥९॥

 मृगयति ॥ धर्मागमा धर्मशास्त्राणि तेषां मर्म रहस्यं तस्य पारं गच्छन्तीत्येवंभूतैरपि नृपै राजभिर्मन्वादिभिः मृगया पापर्धिः न विगीयते निन्द्यते, अपितु क्रियत एव । एवं सत्यपि हे स्मरवत्सुन्दर, त्वं मां यदत्यजः स तव दयोदयोज्ज्वलो धर्मः दयाया उदयेनोत्पत्त्या उज्ज्वलः शोभमानः। सद्यः सन् अयः शुभावहविधिर्यस्य । उपकरिष्यमाणत्वात् । तथा-दयोज्ज्वल इति वा । दयोदयेन सह वर्तमानः । अत एव उज्ज्वल इति वा । मन्मोचने दयां विनान्यत्कारणं नास्तीत्यर्थः । स्मरेति भिन्नम् । हे सुन्दर, त्वं स्मर विचारय । वाक्यार्थः कर्म । नृपैः क्रियमाणा मृगया धर्मागममर्मपारगैरपि न निन्द्यत इति वा । पारगैः 'अन्तात्यन्ताध्व-' इति डेः॥ मृगयाया अनिन्दने कारणमाह-

अबलस्वकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान्मृगयाघाय न भूभुजां घ्नताम् ॥१०॥

 अबलेति ॥ मृगया भूभुजां राज्ञामघाय पापाय न भवति । कथमित्यत आह-किंभूतानां भूभुजाम्-अबलं निर्बलं स्वकुलं च तदश्नन्त्येवंशीलाञ्झषान्मीनान् घ्नतां मारयताम् । तथा निजाः स्वीया ये नीडद्रुमा निवासस्थानवृक्षास्तान्पीडयन्त्येवंशीलान्खगापक्षिणो घ्नताम् । तथा-अनवद्यं निरपराधं तृणं तद् अर्दन्ति पीडयन्त्येवंशीलान्मृगानघ्नताम् । 'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति स्मृतेस्तरुणतृणादेरपि प्राणित्वात्तद्वधस्तु दोषाय । परं दुष्टनिग्रहो राज्ञां धर्म एवेति भावः । अबलान्बलिनो भक्षयन्तीति मत्स्यानां जातिस्वभावः । अवद्येति 'अवधपण्य-' इति साधुः । पश्चाद्बहुव्रीहिस्तत्पुरुषो वा । पूर्वश्लोके मृगयादोषाभावे स्मृतिं प्रमाणमुक्त्वात्र युक्तिमप्यवदत् ॥

यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत्।
कृतमातपसंज्वरं तरोरभिवृष्यामृतमंशुमानिव ॥ ११ ॥

 यदिति ॥ हे राजन्, अहं तव यदप्रियं निन्दाद्यवादिषमुक्तवानस्मि प्रियमाधाय कृत्वा


१ 'अत्रानुप्रासरूपकावलंकारौ । अमृतमिति श्लिष्टम्' इति साहित्यविद्याधरी २ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासकाव्यलिङ्गक्रियादीपकालंकाराः । काव्यलिङ्गे 'अबलस्वकुलाशिनः' इत्यादिना विशेषणद्वारेण पदार्थगत्या हेतुरुक्तः, अत्र घ्नतामिति क्रियापदत्वात्क्रियादीपकम्'

इति साहित्यविद्याधरी।