पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७६
नैषधीयचरिते


 क्रियामिति ॥ दमयन्त्या इति ॥ युग्मम् । असौ नलः पृष्ठगः सन् कराभ्यां तस्या दृशौ न्यमीमिलत्पिदधौ । किं कृत्वा-प्राह्णेतनीं प्राभातिकीमग्निहोत्रादिक्रियां कृत्वा । किं कुर्वन्-पाणिनाहमागत इति तस्या अग्रे न कथनीयमिति करसंज्ञयैव सखीं निषेधन् । तथा-अत एव सहास्याभिर्नलस्य संमुखीभिर्दमयन्त्या वयस्याभिः समीक्षितः। तथा किं कुर्वन्निव-प्रसृतिभ्यां करद्वयचुलुकाभ्यां प्रेयसीदृशोरियत्परिमाणमेतयोर्दैर्घ्यमायामं मापयन्निव। क्रीडाकारिणामियं जा[१]तिः। प्रसृतिप्रमाणे दृशाविति सूचितम् । प्राह्णेतनीं, 'सायंचिरम्-' इति ट्युस्तुट्च, टित्त्वान्ङीप्। मीलेरकर्मकत्वात् 'गतिबुद्धि-' इत्यादिनाऽणौ कर्तुर्णौ कर्मत्वादृशाविति द्वितीया। मापयन्, 'मा माने' अस्माद्धेतुमण्णिचि शता॥

तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात्।
ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥ १३ ॥

 तर्कितेति ॥ हे आलि सखि, मया नेत्रपिधायिनी त्वं तर्किता ज्ञातासीत्येवंरूपाऽर्धा मां मुञ्चेत्याद्यवचनादपरिपूर्णपदा वाणी यस्याः सा, तथा-स्वकराभ्यां नलपाण्योर्मोचनाद्धेतोः ज्ञातं स्पर्शान्तरं स्वीयस्पर्शाद्विलक्षणो नलस्पर्श इति यया । ज्ञातस्पर्शमान्तरं चेतो यस्या इति वा । सा मौनमानशे प्राप । यतो मानसेविनी मानिनी । स्पर्शेन नलं ज्ञात्वा मामवज्ञाय त्रेतायामनुरक्तोऽधुना वृथैव किमित्यागत इत्यभिमानाकिमपि नावददित्यर्थः । वाणीकेति, नद्यन्तत्वात्कप् ॥

सा[२]वादि सुतनुस्तेन कोपस्ते नायमौचिती ।
त्वा प्रा[३]यत्प्रसादेन प्रिये तन्नाद्रिये तपः॥१४॥

 सेति ॥ तेन नलेन सुतनुः शुभाङ्गी सा इत्यवाद्युक्ता । (इति किम्-) अयि प्रिये भैमि, ते तवायं मयि कोपो नौचिती । औचितीशब्दस्याविष्टलिङ्गत्वादुचितोयं नेत्यर्थः । अहं यस्य तपसः प्रसादेन त्वां प्रापं प्राप्तवानस्मि, तत्तपोऽग्निहोत्रादि नाद्रिय आदरेण न कुर्यामित्याक्षेपकाकुप्रश्नः । एवंविधमहाफलस्य तपसोत्यादरो युक्त एवेत्यर्थः । त्वत्प्रापकत्वादेवास्यादरः क्रियते, न त्वन्यथा, तस्मात्कोपं मा कार्षीरिति भावः॥

निशि दास्यं गतोपि त्वा स्नात्वा यन्नाभ्यवीवदम् ।
तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे ॥ १५ ॥

 निशीतिः ॥ हे भैमि, अहं निशि तव दास्यमालिङ्गनचुम्बनादि चरणपर्यन्तसेवाकारित्वं गतोपि सन् प्रातः स्नात्वा त्वां नाभ्यवीवदं न नमस्कृतवानिति यत् , तं मन्तुमपराधं मन्तुमङ्गीकर्तुं त्वं प्रवृत्तासि चेत्, तत्तर्हि वद तदपराधमार्जनायेदानीमेव वन्द्यस नमस्क्रियसे । रात्रौ दास्यं प्राप्त इत्यनेन सखीषु भैमीरात्रिवृत्तमपि सूचितम् । अभ्यवी-


  1. इतः परं लिखितपुस्तकेषु 'युग्मम्' इति कलिकातामुद्रितपुस्तके 'युग्मपाणिनिकरप्रसृतिरित्यमरः' इत्यस्ति।
  2. अवाचीति जीवातुसंमतः पाठः
  3. 'प्रापेति पाठे परोक्षोत्तमैकवचनम्' इति सुखावबोधा।