पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७९
विंशः सर्गः।

 पूर्वेति ॥ स नलः पर्यङ्कमलंचक्रे । किंभूतः-अङ्के संक्रमिता समारोपिता प्रिया येन सः। कः किमिव-आश्लिष्टा चन्द्रिका कौमुदी येन स चन्द्रमाः पूर्वपर्वतमिव ॥

प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् ।
परिरभ्य चिरायास विश्लेषायासमुक्तये ॥ २४ ॥

 प्रावृडिति ॥ स प्रियां विश्लेषः प्रातःस्नानादिनित्यकर्मानुष्ठानवशेन तावन्मात्रभिन्नदेशावस्थायितया वा वियोगस्तज्जनितो (य) आयासः खेदस्तस्योभयोर्वा मुक्तये निवृत्तये परिरभ्य चिरायास तस्थौ शुशुभे वा । कः कामिव-प्रावृडारम्भणे वर्षारम्भेऽम्भोदो मेघो द्यामिव । (किंभूतो मेघः-) स्निग्धः सजलत्वादरूक्षः श्यामः । मेघो यथा वीनां श्लेषो योगः शरदादौ सदा गगने क्रीडद्भिः पक्षिभिर्यः श्लेषः संबन्धस्तज्जनितदुःखपरिहाराय जलभिया पक्षिणां नीडनिवेशित्वात्तद्योगे क्लेशमुक्तये दिवमालिङ्गय चिरं तिष्ठति । किंभूतः सः-स्निग्धोतिप्रीतिमान् । आस, 'अस गतिदीप्त्यादानेषु ॥

चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् ।
नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः ॥२५॥

 चुचुम्बेति ॥ असौ रसमग्नः प्रेमभरपरवशः सन् तस्या गतरोषत्वादालिङ्गनसुखाच्च श्रितस्मितमास्यं चुचुम्ब । कः किमिव-मधुमध्येऽनुबिम्बितः प्रतिफलितः, अत एव रसमग्नो नभोमणिः सूर्योऽम्भोजमिव । तदपि श्रितविकासम् । सूर्यपद्मयोर्दूरदेशत्वाकथं चुम्बनमिति प्रश्ने मधुमध्यानुबिम्बित इत्युत्तरम् ॥

अथाहूय कलां नाम पाणिना स प्रियासखीम् ।
पुरस्ताड्वेशितामूचे कर्तुं नर्मणि साक्षिणीम् ॥ २६ ॥

 अथेति ॥ अथ चुम्बनानन्तरं स पाणिना हस्तसंशया कलां नाम प्रियायाः सखीमा- हूय ऊचे । किंभूताम्-नर्मण्यन्योन्यरहा क्रीडाहासे साक्षिणीं कर्तुं पुरस्तादग्रे वेशितां स्थापिताम् । वेशिताम्, ण्यन्तानिष्ठा ॥

कस्मादस्माकमजास्या वयस्या दयते न ते ।
आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते ॥ २७ ॥

 कस्मादिति ॥ हे कले, अजास्या पद्ममुखी ते वयस्या भैमी कलात्कारणादस्माकं न दयते कृपां न करोति, कथय पृच्छ वेति शेषः । स्वयमेव कारणमाशङ्कते-भवतीषु भवादृशीषु सखीषु मध्य आसक्ता सामस्त्येनानुरक्ता सती हितकारिणमप्यन्यं मादृशं बहु यथा तथा नितरां न मन्यत इत्यहं मन्ये । तेन मयि कृपां न करोतीत्यर्थः । रात्रावात्मानं मम हस्तेन स्प्रष्टुमपि नादादिति तां प्रति सूच्यते । भवदासक्तेरस्माकमियं दशाऽनया कृतेति कलां प्रत्यपि सोल्लुण्ठम् । अथ च-नवपरिचयेऽप्यस्माकं दयते, चि-