पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८२
नैषधीयचरिते

 कामिति ॥ हे कले, इयं का नाम सखीं नामग्राहं नाम गृहीत्वा नामन्त्रयते संबोधनपूर्वं नाह्वयति । अपितु सर्वामपि । नाम शिरश्चालने । आस्माकीमस्मत्संबन्धिनीं तु पुनर्नलेति संबुद्ध्यन्तामाह्वां संज्ञां जिह्वया न स्पृशति नोच्चारयत्यपि । रहस्यभाषणं तु दूरापास्तमित्यर्थः । स्त्रीणां भर्तृनामग्रहणस्य निषिद्धत्वादनौचित्यारोपेणोपालम्भाव्धा- जस्तुतिः। आह्वानमाह्वा, 'आतश्चोपसर्गे' इत्यङ् ॥

अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
अवकाशलवोप्यस्ति नात्र कुत्र बिभर्तु नः ॥ ३५ ॥

 अस्या इति ॥ अस्याः परिदृश्यमानेऽत्रहृदये अवकाशलवःस्थापनलेशोपि नास्ति । तस्मान्नोऽस्मान्कुत्र कस्मिन्स्थाने बिभर्तु धारयतु ।अवकाशलेशाभावे हेतुमाह-यस्मात्पीनाभ्यामाबाहुमूलप्रसृताभ्यां स्तनाभ्यां व्याप्ते समन्तादावृतेऽतिसंकटे । संकटेऽपि दयया समावेशो भवतीत्याशङ्क्य सापि नास्तीत्याह-अस्मासु निर्दयेऽस्मद्विषये कृपारहिते । एतेन नास्याः कश्चिदपराध इति सोल्लुण्ठम् । उच्चकुचाभ्यामहमुपर्येव ध्रिये, नतु मम हृदयस्पर्शः कदापि दीयत इत्यौचित्येप्यनौचित्यारोपाद्वक्रोक्तिर्व्याजस्तुतिर्वा ॥

अधिगत्येहगेतस्या हृदयं मृदुतामुचोः ।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥ ३६ ॥

 अधिगत्येति ॥ हे कले, वयमीदृगेवं पूर्वोक्तप्रकारेण कठिनमेतस्या हृदयमधिगत्य प्राप्य ज्ञात्वा वा मृदुतामुचोः कठिनाश्रयवशात्काठिन्यं भजतोः । कदाप्यनालिङ्गनान्मयि विषये निर्दययोरिति यावत् । तथा-युक्तमुचितं वृत्तमाचरणं ययोः। कदाचिदप्यालिङ्गनाकरणाद्विरुद्धलक्षणयाऽनाचारशीलयोरिति यावत् । एवंभूतयोरस्याः स्त- नयोः कदाचिदप्यालिङ्गनादानाद्वैमुख्यं पराङ्मुखत्वमेव प्रतीमो जानीमः । आलिङ्गने कुचौ संमुखौ भवतः, निर्दयहृदयत्वादेतस्याः पराङ्मुखत्वादेवंभूतावेतत्कुचावपि सदा मम पराङ्मुखावेव जातावित्यर्थः । अथ च -स्त्रीणां हृदयस्यातिमृदुत्वादेतस्या हृदयमीदृगतिमृदु ज्ञात्वापि सर्वस्य तस्यावरणान्निर्दयत्वं भजतोः । अत एव विपरीतलक्षणया युक्तवृत्तयोरनाचारशीलयोः । मृदुं प्रति मृदुनैव भवितव्यम्, विशेषतस्तु स्त्रीं प्रति । तथा च विपरीताचरणादनाचारयोः । अत एव वैमुख्यं परामुखत्वम् । अथ च विरुद्धमुखत्वं जानीम एव । अनाचारशीलो हि कस्मैचिदपि स्वमुखं न दर्शयति मलिनमुखश्च भवति । एतयोरप्युक्तप्रकारेण पराड्युखत्वं चूचुकयोः श्यामत्वान्मलिनमुखत्वं जानीम इति सोल्लुण्ठम् । अथ च एतस्या हृदयं कठिनं ज्ञात्वा 'आर्जवं हि कुटिलेषु न नीतिः' इति न्यायेन निष्ठुरत्वमङ्गीकुर्वतोः । यस्मादुचितं वृत्तं स्थितिर्ययोः । अथ च-युक्ताचारयोः । पराङ्मुखत्वं प्रतीम एव । हृदयस्योपर्यूर्ध्वमुखेन वर्तमानद्धृदुयं प्रति कुचौ सदा पराङ्मुखावेवेत्यर्थः । युक्ताचारो हि कठिनहृदयं प्रति निर्दयो भूत्वा तस्मात्पराङ्मुख एव भवति, तं न पश्यति । अथच-ईदृक्सुन्दरतरं रूयन्तरपरित्यागेनास्या हृदयं प्राप्य कठिनतरत्वं गुणं भजतोः, तथा-पीवरत्वादन्योन्यसंश्लिष्टयोर्वर्तुलयोश्च विगतमुखत्वं निमग्नचूचुकत्वं गौरत्वविरुद्धश्याममुखत्वं च जानीम एव