पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते


 स्मरेति ॥ 'बालां बलान्न भुञ्जीत विरागोत्पत्तिशङ्कया । भुञ्जीत चेत्रपाभीतित्याजनक्रमसंगताम् ॥' इत्यादिस्मरशास्त्रविदा कामशास्त्ररहस्यज्ञेन त्वया नवोढा नवपरिणीता सेयं बाला नोऽस्माकं सखी कथं संभुज्यते । अपितु विरागोत्पत्तिभिया बलादुपमर्द्य न कथंचिद्रम्यते, अत एव त्वया संभुक्तत्वादेवास्मासु कथं केन प्रकारेण भाषतां कथयतु, अपितु-त्वत्कृतरतत्वादेव किंचिदपि न कथयतीति स्पष्टोर्थः । अथ चैवं वक्रोक्तिः। कामशास्त्रज्ञेन त्वयेयं नवोढा बाला कथं किंवा संभुज्यते, अपितु सामस्त्येन भोगो न क्रियत एव, किंतु स्मरशास्त्रवित्त्वात्स्वल्पमेव भुक्त्वा मुच्यते इत्यर्थः। अत एवास्मासु किं भाषताम् , अपितु-अतिपीडनाभावान्न किंचिदप्यस्मासु भाषते । या हि बाला सुरते नितरां पीड्यते, सैव सखीषु ममातिपीडा भवति मया सोढुं न शक्यते इत्यादि वदति, नतु सामिभुक्तमुक्तेत्यर्थः। अथ च-कामशास्त्रज्ञेन त्वया बालापीयमेतन्मनोनुकूलमेव भुक्ता, अतः कथमस्मासु भाषताम् , अपितु न कथंचिद्भाषते । बाला हि कामशास्त्रकौशलवशाद्यथानुरागं भुक्ता यद्यपि भोगं सहते, तथाप्यतीव लज्जालुत्वात्संभोगरहस्यं कस्याप्यग्रे न कथयतीत्यर्थः । तस्मादुभावपि वञ्चकौ युवामस्मान्वञ्चयथ इति भावः । अथ च-सामर्थ्याच्छास्त्रविदा कामशास्त्रज्ञेन त्वया नवोढेयं बाला केन प्रकारेण संभुज्यते स्मर चिन्तय । तं प्रकारमित्यर्थात् । रात्रौ कृतमेव संभोगमकृतमेव कथयति । संभोगः प्रायेण विस्मृतः, अतः स्मरेति काकूक्तिः। कथं चेयमस्मासु भाषताम् , अपितु नास्मासु कथयतीत्यर्थः । अथ च विपरीतलक्षणया त्वयेयं भुक्ता, अनया रहस्यमस्मासु कथितम् , किमिति नः प्रतारयसीत्यर्थः । अथ च त्वयेयं वाला परिणीता कथं समन्ताद्भुज्यते, अपित्वनुचितमेतत् विदुषापि त्वया क्रियते अस्मासु कथं नाभाषत एवेत्यादि ज्ञातव्यम् ॥

 आलीरियमलीकवाक्-' इत्यंशस्य 'आह स्म-' इत्यत्र 'तन्मृषाभूत्' इत्यंशस्य चोत्तरमाह-

नासत्यवदनं देव वां गायन्ति जगन्ति यम् ।
प्रिया तस्य सरूपा स्यादन्यथालपना न ते ॥ ४० ॥

 नासत्येति ॥ हे देव राजन्, जगन्ति त्रयोपि लोका यं त्वामसत्यं वदनं भाषणं यस्य तादृशं न गायन्ति, किंतु सत्यवादिनमेव वदन्ति । यद्वान असत्यं नासत्यं सत्यमेव भाषणं यस्य तम् । तस्य तादृशस्य सत्यभाषिणः ते तव प्रिया अन्यथा विपरीतार्थमलीकमालपनं भाषणं यस्यास्तादृश्यसत्यवादिनी सरूपा तुल्यस्वभावा योग्या न स्यात् किंतु सत्यवादिन्येव प्रिया तव योग्या स्यादित्यर्थः । तस्मादस्मासु यदनया कथितं सत्यमेवेति भावः । अथ च -वक्रोक्तिः । त्रयो लोका यं त्वामसत्यं भाषणं यस्य तं सदानृतवादिनं त्वां वदन्ति तस्यानृतवादिनस्तवान्यथालपनाऽसत्यवादिनी सदृशी योग्या न स्यात् किंत्वसत्यवादिन्येवोचिता। कृतमपि संभोगमहं न कृतवानिति वदसि, तथेयमपि रात्रौ कृतमपि संभोगं नेति वदति । 'योग्यं योग्येन संबध्यते' इति न्यायो युक्तः । इति द्वावपि प्रति सोल्लुण्ठम् । भो राजन्, त्रयोपि लोका नासत्यवदश्विनीकुमारवन्मुखं यस्य तमतिसुन्दरमुखं वदन्ति तस्य तव प्रियाऽन्यथा कुरूपं लपनं मुखं य-