ख्यादौ तु वाङ्मात्रेणैव रागो नतु हृदयस्येति वा । 'उदितेव' इति पाठे-उत्प्रेक्षा । अनया गाढालिङ्गनेन तव हृदये लग्नमिदं परिदृश्यमानं कुचकुङ्कुमादिकमेव सर्वमपि रात्रिवृत्तान्तमसान्बोधयतीति वृथैव वञ्चयसीति सूचितम् ॥
'कां नामन्त्रयते इत्यादेरुत्तरमाह-
मनसायं भवन्नामकामसूक्तजपव्रती। |
मनसेति ॥ अयं सख्या भैम्याः कण्ठः मनसैव भवतो नलेति नाम तदेव कामसूक्तं स्मररहस्यप्रकाशको मन्त्रस्तस्य जपः स एव व्रतमस्यास्तीति तादृशः सन् एकावलिच्छलादेकयष्टिकमुक्ताहारविशेषव्याजादक्षसूत्रं पद्माक्षादिरचितां जपमालां चुम्बति । भर्तृनामग्रहणनिषेधात् 'साहस्रो मानसो जपः' इति मानसजपे फलविशेषश्रवणाच्च मुक्ताहारजपमालिकया त्वन्नामैव मनसा जपतीति भावः । नलेति स्मरणमात्रेणैव कामोद्रेकानाम्नः कामसूक्तत्वम् ॥
'अस्याः पीनस्तन-' इत्यादेरूत्तरमाह--
अध्यासिते वयस्याया भवता महता हृदि । |
अध्यासित इति ॥ महता नितरां गौरवयुक्तेन । अथ च-महापरिमाणेन भवता त्वया वयस्याया भैम्या हृदि अध्यासिते समावृते सति अन्तर्हृदयमध्येऽसंमान्तौ स्थातुमशक्तौ स्तनौ हृदयावहिर्देशे निष्क्रान्तौ इति वयं ब्रूमहे संभावयामः । यदाप्रभृति त्वं चित्ते लग्नः, तदाप्रभृत्येवैतौ बहिर्दश्यते, तस्मात्पूर्वमन्तरेव स्थितत्वाद्वहिर्न दृश्यते । त्वदधिष्ठानानन्तरं तु बहिर्निर्गतौ इति तवैवावकाशोऽभूत् नतु कुचयोः, तस्मादस्मानेव प्रतारयसीति भावः । अन्योपि महताधिष्ठिते स्थाने स्थातुमशक्तो बहिर्निर्गच्छत्येव । बहिरपि यदादि त्वया हृदयं स्पृष्टं तदादि साटोपं निर्गतावित्यर्थः । अध्यासिते हृद्यन्तरसंमान्ताविति वान्वयः॥
'अधिगत्य-' इत्यादेरुत्तरमाह-
कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया। |
कुचाविति ॥ दोषेणोज्झितौ निर्दोषौ, अ[१]थ च-दोषायां राज्यां (अर्थात्) कूर्पासकेन त्यक्तौ, तथा बृहन्तावतिपीवरौ, अत एव त्वया पाणिभ्यां पीडितौ मर्दितौ व्रणितौनखैश्च क्षतयुक्तौ कृतौ अस्याः कुचौ दिने ह्रिया हेतुना आवृतौ वस्त्रेणाच्छादितौ आस्यं चूचुकाग्रं कथं दर्शयताम् , अपि तु न कथंचित् । रात्रौ हि संभोगसमये नि
- ↑ 'यदिवा दोषा बाहुना उच्चत्वात्पीनत्वादुज्झितौ' इत्यपि सुखावबोधायाम् ।