पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९०
नैषधीयचरिते


 लज्जितानीति ॥ हे कले, अनया मयि विषये तावल्लज्जितानि लज्जाविशेषा जितान्येव निरस्तान्येव । यतो रात्रौ क्रीडितया कृतसुरतक्रीडया मयि प्रदर्शितबहुविधसुरतचातुर्यया तत् तस्मात्संप्रति तानि लज्जितानि यत्पुनः प्रत्यावृत्तानि तत्कं प्रत्युद्दिश्यति त्वमेनां पृच्छ । मयास्याः सुरतचातुर्यधाष्टयं बहु बहुवारं दृष्टमेव त्वामेव प्रतीयं लज्जत इति जानीहीति भावः॥

 इदानीं श्लोकचतुष्टयेन स्वापराधमाशङ्कय परिहरति-

निशि दष्टाधरायापि सैषा मह्यं न रुष्यतु ।
क्व फलं दशते बिम्बीलता कीराय कुप्यति ॥ ५७ ॥

 निशीति ॥ सैषा निशि दष्टोऽधरो येन तस्मा अपि मह्यं न रुष्यतु कुप्यतु । यस्मात् बिम्बीलता फलं पक्कं बिम्बीफलं दशते आस्वादितवते कीराय क्व कुप्यति, अपितु न कुतोपि । किंतु स्वसंबन्धेन शोभाहेतवे तस्मै स्निह्यत्येवेत्यर्थः। दन्तक्षते कृतेऽपि व्रणसंबन्धवशान्नितरामधरशोभाकारित्वेन मह्यं प्रसाद एव युक्तः, नतु कोप इति भावः । 'रुष्यति' इति पाठे-सिद्धवत्कारेणोक्तिः। मह्यं कीराय च 'क्रुधदुह-' इति (संप्रदानत्वे) चतु[१]र्थी॥

सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः ।
पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडया[२]नि न ॥ ५ ॥

 सृणीति ॥ एतस्याः सृणीपदमङ्कुशाघातक्षतमेव शोभनं चिह्न यस्याः, अथच--अङ्कु- शाकारनखपदविशेष एव शोभन चिह्नं यस्याः सा कुम्भिनः करिणः कुम्भयोः श्रीः शोभा संपच्च यस्माच्चोरिता । पश्य एतत्कुचयोरङ्कुशाकारं नखं नास्ति तर्हि त्वमेव विलोकय । तत्तस्मान्नृपो दण्ड्यदण्डकरणाधिकारी अहं तौ स्तेयकारिणावेतत्कुचौ न पीडयानि, अपितु-पीडयाम्येव । तयोः पीडनं दण्डरूपं नखक्षतादिरूपं चोचितमित्यर्थः। राज्ञा हि चोरस्य दण्डः क्रियते, ममापराधो नास्तीति भावः । अङ्कुशोऽस्त्री सृ[३] णियोः' इत्यमरः । सृणी, 'कृदिकारात्' ङीष् ॥

अधरामृतपानेन ममास्यमपराध्यतु ।
मूर्ध्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥ ५९॥

 अधरेति ॥ ममास्यं मुखमेतस्या अधरामृतस्य पानेन कृत्वाऽपराध्यतु । अयं मुखस्यापराधोङ्गीकृत इत्यर्थः । मम मूर्ध्ना पुनः किमपराद्धम् , यो मस्तकः प्रणामहेतुनास्याः पादौ चुम्बितुं स्प्रष्टुमपि नाप्नोति नमस्कर्तुमपि न ददाति । कोऽपराधोऽनेन कृतः, पृच्छेत्यर्थः ॥

अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥ ६० ॥


  1. 'दृष्टान्तालंकारः' इति जीवातुः।
  2. पीडयामीति बहुत्र पाठः ।
  3. स्त्रियामित्येव पाठसत्त्वेपि यथा द्वयोरित्यर्थकत्वं तथा मुकुटे विस्तरः ।