पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
नैषधीयचरिते

वचनप्रसङ्गार्थमाह-

भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् ।
खगवागियमित्यतोऽपि किं न मुदं धास्यति कीरगीरिव॥१५॥

 भवितेति ॥ यद्यपि इदं मदीरितं मद्वचनं विचारचारु विचारविषये मीमांसासहं चेन्न भविता भविष्यति । अहं लोकोत्तरमुपकारं करिष्यामीति सत्यमेव, तथापि त्वं मिथ्या चेन्मन्यसे, तथापि मदीयं वचः श्रव्यं श्रवणार्हं भवत्येव । विचारचारु चेन्न, कथं श्रव्यमित्याशङ्कायामाह-इयं खगवाक्पक्षिणो वाक् पक्षी मनुष्यवाचा वदतीत्यतोऽपि हेतोर्मद्वचनं किं मुदं संतोषं न धास्यति करिष्यति, अपितु करिष्यत्येव । इष्टसाधकत्वात् । अपिरेवार्थः । केव-शुकवागिव । श्रव्यमर्हार्थे 'अचो यत्' इति यत्, 'सार्वधातुकार्धधातुकयोः' इति गुणः, 'धातोस्तनिमित्तस्यैव' इति वान्तादेशः ॥ तदेवाह-

स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः ।
यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शकभर्तृक्ष': ॥१६॥

 स इति ॥ किल प्रसिद्धौ स भीमसंज्ञको भूपती राजा जयति सर्वोत्कर्षेण वर्तते । किंभूतः-अरिसार्थे वैरिसमूहे सार्थकीकृतमन्वर्थकीकृतं नाम स्वसंज्ञा येन । बिभ्यत्यस्माद्वैरिण इति (नत्वन्ये, इति ) भीमः । 'भीमादयोऽपादाने' इति साधुत्वम् । स कः -विदर्भभूर्वराडभूः यं पतिमवाप्य शक्रभर्तृकामपीन्द्रपतिकामपि द्यां दिवं हसति । तत्तुल्या भवतीत्यर्थः । शङ्कते तपस्विभ्योऽपीति शक्रस्तद्भर्तृका द्यौः, अहं तु भीमभर्तृकेति हासहेतुः। शक्यते जेतुमिति वा । तस्मात्कोऽपि न बिभेतीति । अर्थेन सह वर्तमानं सार्थकम् । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः, 'वोपसर्जनस्य' इति सः, 'शेषाद्विभाषा' इति कप् । ततश्च्विः । शकभर्तृकाम् 'नद्यृतश्च' इति कप् ॥ भैम्या लोकोत्तरे गुणोत्कर्षे मिथ्यात्वनिरासार्थं पुराणप्रसिद्धमितिहासं सूचयन्नाह-

दमनादमनाक्प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् ।
वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥ १७ ॥

 दमनादिति ॥ हे राजन् , स भीमः दमनादेतन्नाम्नस्तपोधनादृषेर्वरदानसमर्थाद् अमनागत्यर्थं प्रसेदुषः प्रसन्नात्तथ्यगिरोऽप्रतारकादेवंभूतात् तनयां वरं कन्यालक्षणमभीप्सितमाप प्राप्तवान् । किंभूताम्-दिष्टः कालः विष्टपं भुवनमनयोस्त्रितये कालत्रये, भुवनत्रये चानन्यसदृगन्यसदृशो न भवत्येवंभूतः सौन्दर्यौदार्यादिगुणोदयो यस्यास्ताम् । भूतभविष्यद्वर्तमानकाले लोकत्रयेऽपीदृक्सौन्दर्यादिगुणवती कापि नास्तीति भावः । दिष्टस्तेनैव मुनिना दत्तो विष्टपत्रितयेऽनन्यसदृशो गुणोदयो यस्यै तामिति वा । 'कालो


१ 'अत्रानुप्रासोपमालंकारौ' इति साहित्यविद्याधरी । २ 'अत्रानुप्रासोपमालंकारौ' इति

साहित्यविद्याधरी । अत्र विदर्भभुवो(ऽपि) द्युहासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः' इति जीवातुः ।