पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९१
विंशः सर्गः

 अपराद्धमिति ॥ भवद्वाणीश्राविणा त्वद्वचनाकर्णनशीलेन मया वीणायाः कोकिलायाश्च तव वा किमपराद्धम् को वापराधः कृत इति कले, त्वं भैमीमनेन किमपराद्धमिति पृच्छ । यद्यस्माद्वीणा सांप्रतं परुषमाह, कलकण्ठी कोकिला च मां प्रति निष्ठुरं ब्रूते । तस्मादपराधः संभाव्यते । येन हि यस्याः कश्चिदपराधः क्रियते तं प्रति सा तदीयो वा तत्सदृशः कश्चित्परुषं भाषते । अथच-वीणाकोकिलयोः स्वरे यस्मान्माधुर्यं नास्ति तस्मात्पश्चादागत्य निभृतं मयाऽसमक्षभाषमाणाया भवत्या भारती श्रुता, नत्वन्येन केनाप्याशयेनेति सोप्यपराधो न भवतीत्यर्थः। वीणाकोकिलालापापेक्षया भैमीवाणी मधुरतरा, रात्रौ एतद्वाणीमाधुर्यं मया बह्वनुभूतम् । इदानीं तु त्वां दृष्ट्वा मां प्रति तूष्णीमास्ते इति । परुषं निष्ठुरं च क्रियाविशेषणम् । परुषं निःस्नेहम्, निष्ठुरं सतिरस्कारम् । कलकण्ठी 'अङ्गगात्र-' इति ङीष् ।

  सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम्।
  ममताऽनुमताऽस्मासु पुनः प्रस्मर्यते कुतः ॥ ६१ ॥

 सेति ॥ हे कले, सेयं स्वस्यालिजने त्वयि विषये विश्वस्य (विश्वासमधिगम्य ) भाषतां कथयतु । अस्मासु विषयेऽनुमताऽङ्गीकृता ममता स्वीयतामतिः पुनः कुतः प्रस्मर्यते विस्मर्यते इति त्वं पृच्छ, इयं च त्वयि विश्वस्य कथयत्वित्यर्थः । रात्रौ रतानुकूल्यमाचरितमनया, इदानीं तु तव समक्षं प्रातिकूल्यं किमित्याचरतीति भावः । इत्युपालम्भनभङ्गिः। प्रशब्दस्य गतार्थतया विस्मरणार्थता ॥

  अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् ।
  संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम् ॥ ६२ ॥

 अथेति ॥ अथैवंनलोक्त्यनन्तरं सा कला भैम्या उपवदने वदनसमीपे स्वकर्णस्य उपनयच्छलात्समीपनयनव्याजात् तस्या भैम्याः श्रुतौ कर्णे निजास्यं संनिधाप्य संनिहितं तां जगाद । अवदन्त्या अपि भैम्या वचनं शृण्वतीव स्वकर्णं भैमीमुखसमीपे कृत्वाऽनन्तरं च तद्वचः प्रतिवचनमेकान्ते वितरन्तीव भैमीकर्णसमीपे निजमुखं कृत्वा भैमीं जगादेत्यर्थः । कथकानुकथकजातिः । उपवदने, अव्ययीभावे सप्तम्या अम्भावाभावः । संनिधाप्य, हेतुमण्ण्यन्ताल्ल्यप् ॥

  अहो मयि रहोवृत्तं धूर्ते किमपि नाभ्यधाः ।
  आस्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये ॥ ६३ ॥

 अहो इति ॥ हे धृर्ते वचनचतुरे, त्वं मयि विषये रहोवृत्तमेकान्ते निष्पन्नमालिङ्गनादि किमप्येकमप्यल्पमपि च नाभ्यधाः। अहो आश्चर्यम् । एतादृशी धूर्ता कापि न दृष्टेत्यर्थः । त्वम् आस्स्व तिष्ठ तिष्ठ । यद्यपि त्वं नाचकथः, तथापि ते तव तद्रहोवृत्तं सभ्यं मध्यस्थं सत्यवादिनमिमं भूपं नलमेवाभिधापये वादयामि । अहमपि त्वया यतो वञ्चिता तथा किंचिद्रचयिष्यामि यथा नल एव स्वयं त्वदीयसुरतप्रागल्भ्यं प्रकटयति मां वञ्चयित्वा कथंकारं स्थास्यति क्व यास्यति क्षणमात्रं स्थिरा भवेति सरोषोक्तिः।