पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९४
नैषधीयचरिते

त्परिरम्भिणस्तद्युक्तात्कराम्भोजाद्धेतोस्तव जम्भारित्वमिन्द्रत्वं संभावयति तर्कयति । नह्यनिन्द्रो वज्रहस्तः । रेखारूपादपि वज्रादेवमनुमानात्कुशाग्रबुद्धित्वमस्याः॥

  अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः।
  शङ्कातङ्कं तुदैतस्या यदि त्वं तत्त्वनैषधः ॥ ७२ ॥

 अनन्येति ॥ तस्माद्भो राजन्, त्वं यदि तत्त्वेन नैषधो भवसि, नतु छद्मना तत्तर्हि न विद्यतेऽन्यो भैमीभवद्व्यतिरिक्तः साक्षी यासु । युवाभ्यामेव ज्ञायन्त इत्यर्थः। तादृशी रहःक्रिया एकान्तक्रीडाः साक्षात् स्वयमेव, अथ च-व्यङ्ग्यवृत्तिं विना, आख्याय प्रकटं कथयित्वा एतस्याः शङ्कातङ्कमिन्द्रमायासंशयमयं त्वं तुद निराकुरु । एतत्प्रत्यायिकां क्रीडासमयचेष्टामुक्त्वाऽस्माकमेतस्याश्च संदेहमपतुदेत्यर्थः । 'सत्यनैषधः' इति च पाठः॥

  इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् ।
  वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः॥ ७३ ॥

 इतीति ॥ इत्युक्तप्रकारेण तया कलया सुप्रयुक्तत्वेन कैतवद्योतकहास्यादिविकारव्यतिरेकेण सुवर्णकमलदानादीन्द्रत्वनिश्चायकोपपत्तिमत्तया च सम्यक्प्रयुक्तत्वेन निह्नुतीकृतमाच्छन्नं कैतवं छद्म यस्यास्तां कलावाचमाकर्ण्य तद्भावे भयीन्द्रभ्रान्त्यैवेयं चुम्बनादि न करोति किमिति भैम्याशये संशयालुः संदिहानः स नलो भैमीभ्रान्तिनिरासार्थं शशंस । रहोवृत्तमित्यर्थः ।।

  स्मरसि च्छद्मनिद्रालुर्मया नाभौ शयार्पणात् ।
  यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि ॥ ७४ ॥

 स्मरसीति ॥ हे भैमि, छद्मना निद्राणाऽलीकमेवाङ्गीकृतनिद्रा त्वं मया नाभौ शयस्य करकमलस्यार्पणाद्धेतोरानन्देन सात्त्विकभावेनोल्लसंति लोमानि यस्यास्तादृशी मत्करनाभिस्पर्शेन जातरोमाञ्चा सती पद्मयुक्ता नाभिर्यस्यास्तादृशी भविष्यसि संजातासीस्तत्स्मरसि ।पाणिरोमाञ्चसंबन्धात्सकण्टककमलसंबन्धसंभावनया पद्मनाभीत्वं तव यजातं तत्स्मरेत्यर्थः । नलपाणिः पद्मस्थानीयः, रोमाञ्चश्च तत्कण्टकस्थानीयः। अथ च -विकसितकमलदलतुल्यरोमाञ्चोद्गमात्पद्ममिव नाभिर्यस्यास्तादृशी जातासि तत्स्मर । शयार्पणं रोमाञ्चोद्गमे हेतुः । अथ च -नाभौ शयार्पणादपद्मनाभः पद्मनाभः श्रीविष्णुर्भविष्यसि पद्मनाभीभविष्यसीति च्विः । तत्स्मरसि, नाभौ करकमलधारणाच्छ्रीविष्णुरूपा जातासि । नहि विष्णुं विनाऽन्यस्य नाभौ कमलमस्तीत्यर्थः । निद्रितासीति बुद्ध्या वसनस्रंसनार्थं नाभिसमीपे मया करेऽर्पिते तत्संस्पर्शाज्जातसात्त्विकरोमाञ्चा जातासि तत्स्मरेति भावः। आनन्दोल्लासिलोमेति निद्राया अलीकत्वं द्योतितम् । नहि निद्रायाः सत्यत्वे करस्पर्शाद्रोमाञ्चोद्गमो भवति । भैमीपक्षे पद्मनाभीति च्विः। स्मर-