पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९६
नषधीयचरिते

मोहनकारिणा कामबाणेन मोहितो निरस्तविवेकोऽहं तवाधरपानेषु अतृप्तः संस्तव रसनां जिह्वामपि यदपिबं तत्तावत्साकल्येन त्वया न प्रस्मृतम् । जिह्वाग्रलेहनमपि कामशास्त्रोक्तम् । प्रशब्दः प्रगतार्थः। 'अधरपानानाम्' इति पाठे-तृप्त्यर्थानां करणे षष्ठी वा ॥

  त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् ।
  स्मरेः स्वहृदि यत्स्मेरसखी: शिल्पं तवाब्रवम् ॥ ७९ ॥

 त्वदिति ॥ अहं स्वहृदये तवालिङ्गनोत्थितां तव कुचे तात्कालिकत्वादार्द्रस्याशुष्करुधिरस्य मया कृतस्य नखाङ्कस्य मुद्रां नखक्षतदर्शनादेव स्सेरसखीः हास्यपरास्तव सखीः प्रति तव शिल्पं भवत्सख्या भैम्येदं नखक्षतं कृतं पश्यतेति त्वन्निर्माणं यदब्रवं तत्स्मरेश्चिन्तयेः। 'स्मेरः' इति पाठे-स्मेरः सन्नहमित्यर्थः। सखीः, मुख्यं कर्म । शिल्पमिति 'अकथितं च' इति कर्मत्वम् ॥

  त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः ।
  वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम् ॥ ८० ॥

 त्वयेति ॥ मधुगोष्ठ्या मद्यशालाया मध्ये मद्यसहपानावसरे अन्याः सपत्नीः क्रीडयन् त्वया रुषा रोषरूषितया दृशा ईक्षितोऽहं तासां सपत्नीनां पुरः समक्षमेव किल मद्यमत्तत्वात्स्खलनव्याजेन त्वत्पादे मूर्ध्ना यदस्खलं स्खलित्वा यदपतं तद्वेत्सि जानासि । स्खलनव्याजेन प्रणामेन त्वां प्रसादितवानस्मि तत्स्मरेति भावः । मध्येमधुगोष्ठि, 'पारे मध्ये षष्ठ्या वा' इति समासः॥

  वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि ।
  अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किल ॥ ८१॥

 वेत्थेति ॥ मयि प्रोष्य विजययात्रां कृत्वा आगते, अत एव हार्दिनि प्रेमेजरतरले त्वां पश्यति सति आलिं स्वसखीमालिङ्ग्य अन्याः प्रति तस्यां केलिमुदा क्रीडाहर्षेण किल विलासप्रकटनव्याजेन यत्तामचुम्बीः, तद्वेत्थ स्मरसि । कामशास्त्राभ्यासकौशलवशात्सख्यालिङ्गनचुम्बनव्याजेन मां प्रत्यालिङ्गनचुम्बनद्वारा स्वप्रेमभरं यत्सूचितवत्यसि तत्स्मरेति भावः। हे हार्दिनीति भैमीसंबुद्धिर्वा । प्रोष्य, प्रपूर्वाद्वसेः क्त्वो ल्यपि यजादित्वात्संप्रसारणम् । हार्दिनि, (युवादित्वादणि) 'हृदयस्य हृल्लेख-' इति हृद्भावे च 'अत इनि'॥

  जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने।
  निक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः॥८२॥

 जागर्तीति ॥ अहं ताम्बूलस्य चर्वितपूगफलनागवल्लीदलस्य फालिकाः शकलानि

स्वमुखात्सकाशाद्भवत्या आनने निक्षिप्य निधाय 'यदीयो निक्षेपः स तस्मै दातव्योऽन्यथा दण्ड्यः' इति न्यायाच्छास्त्रोक्तयुक्तेर्यत्तास्ताम्बूलफालिकाः ( यदहमयाचिषं)