पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९८
नैषधीयचरिते

कराभ्यां भ्रमणरूपाद्विभ्रमात्तद्व्याजात्प्रणामप्रसादाञ्जलिबन्धनरूपेण करौ योजयता संयुक्तौ कुर्वता मया कोपत्याजनपूर्वं यत्प्रसादितासि तद्ध्ये(धी)हि । स्मरेत्यर्थः । 'इक् स्मरणे ॥

  ताम्बूलदानमन्यस्तकरजं करपङ्कजे ।
  मम न स्मरसि प्रायस्तव नैव स्मरामि तत् ॥ ८७॥

 ताम्बूलेति ॥ त्वं त्वदीयकरपङ्कजे मम ताम्बूलदानमन्यस्तकरजमक्षिप्तनखक्षतं प्रायो बाहुल्येन न स्मरसि । अहमपि मदीयपाणिपद्मे त्वत्कृतं तृषाच्छेदकं यथा ताम्बूलदानमक्षिप्तनखक्षतं बाहुल्येन नैव स्मरामि । किंतु-अन्योन्यवीटिकादानक्षणे प्रेमभरात्पाणिपद्मगर्भारोपितनखक्षतमेव सदा ताम्बूलदानमावयोः, तत्स्मरेति भावः ॥

  तदध्ये(धी)हि मृषोद्यं मां[१] हित्वा यत्त्वं गता सखीः ।
  तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम् ॥८८॥

 तदिति ॥ कमप्यपराधं कृत्वाप्यहमेतन्नाकार्षमित्यादिमृषोद्यमलीकभाषिणं मां कोपेन हित्वा सखीः प्रति गता त्वं तत्रापि सखीसमीपे भवदीयपृष्ठदेशानुवर्तित्वेन गतस्य मेऽग्रे लीलयैव स्वभावेनैव यत्तृणमच्छिनश्चिच्छेद (दिथ), तदध्ये(धी)हि इति पूर्ववत् । अद्यप्रभृत्यलीकभाषिणस्तवाहं न कापि, त्वं मम न कोपीति मैत्रीविच्छेदसूचकं तृणच्छेदं यथा बालकाः कुर्वन्ति, तद्वत्त्वयापि कृतमिति स्मरेत्यर्थः । मृषोद्यम्, 'राजसूय-' इति निपातः॥

  स्मरसि प्रेयसि प्रायो यद्द्वितीयरतासहा ।
  शुचिरात्रीत्युपालब्धा त्वं मयापिकनादिनी ॥ ८९ ॥

 स्मरसीति॥हे प्रेयसि, बालत्वात्सौकुमार्यविशेषाच्च द्वितीयरताभिलाषिणो मम द्वितीयस्य रतस्यासहा, तथा-पिकवन्नदति तच्छीला कोकिलतुल्यकूजना त्वं मया शुचिरात्री ग्रीष्मर्तुसंबन्धिनी रात्रीत्युपालब्धा सोपालम्भमामन्त्रितासि तत्प्रायः स्मरसि कथयेत्यर्थः । शुचिरात्रिरपि स्वल्पप्रमाणत्वादेकवारसुरतनिर्माणेनैवं जातप्रभातत्वाद्द्वितीयसुरतनिर्माणासहा वसन्तनैकट्याच्च पिकनादोऽस्यां वर्तत इति । तत्रापि प्रभाते कोकिलालापो भवतीत्यर्थः । यद्वा-वसन्तस्यातीतत्वात्कोकिलानामभावापिकव्यतिरिक्ताः पक्षिणोऽपिकाः, तन्नादयुक्ता ॥

  भुञ्जानस्य नवं निम्बं परिवेविषती मधौ।
  सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः॥ ९०॥

 भुञानस्येति ॥ मधौ वसन्ते नवं नूतनसमागतपत्रपुष्पादिकं निम्बं भुञानस्य मे


  1. यद्वा अपिशब्दः समुच्चये । वर्षाकालसांनिध्यात् कस्य जलस्य नादोऽस्यां सा कनादिनी' इत्यधिकं सुखावबोधायाम् ।