पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९९
विंशः सर्गः।

सपत्नीष्वपि रागं प्रीतिं संभाव्यानुमाय कोपवशात् पुनःपुनः निम्बमेव मम भोजनार्थं परिवेविषती पात्रे परितः क्षिपन्ती त्वं स्वरुषः स्वीयान्कोपान् स्वकोपस्य वा स्मरेः। मधुरतरशर्करादिपरित्यागेनातिकटुरसेऽपि चेदस्यैवं रुचिस्तर्हि मदीयापेक्षयाऽतिहीनासु मत्सपत्नीष्वप्यस्य रुचिः स्यादिति संभाव्य बहुतरं निम्बमेव भुङ्क्ष्वेति वारं वारमतिकटुनिम्बातिदानेन यत्कोपान्मां प्रति व्यञ्जितवत्यसि तत्स्मरेति भावः । वसन्ते च जना निम्बं भुञ्जते । परिवेविषती, परिवेषणार्थात्परिपूर्वाद्विषेः शता 'श्लौ' इति द्विर्वचनम् । स्वरुषः, 'अधीगर्थ-' इति षष्ठी, कर्मत्वविवक्षया द्वितीया वा ॥

  स्मर शार्करमावाद्य त्वया राद्धमिति स्तुवन् ।
  स्वनिन्दारोषरक्तात्तु यदभैषं तवाधरात् ॥ ९१ ॥

स्मरेति ॥ शार्करं शर्कराविकारभूतं शर्करासंस्कृतं वा किमपि भक्ष्यमास्वाद्य एतत्सर्वातिशायि रसममृतस्त्राविहस्तया त्वया साधितं किमिति स्वादातिशयानतिस्तुवन् वारं वारं तदेव वर्णयन्नहं सर्वातिशायिरसमेतच्छार्करमिति स्तुतौ अधरस्यापि सर्वमधुरवर्गान्तःपातितया निन्दापर्यवसानान्मदपेक्षयाप्येतदधिकरसमित्ययं वर्णयति, ननु तर्हि अद्यप्रभृति अयमेतदेव रसयतु मम तु कथाप्यनेन न कार्येति स्वनिन्दया रोषस्तेन रक्तात्तवाधरात्पुनर्यदभैषं भीतवानस्मि तत्स्मर । कोपेन लौहित्यं युक्तम् । त्वदधरकल्पशार्करवर्णनया कुपितया त्वयाधरस्फुरणादिना व्यञ्जितात्कोपाद्यदभैषं तत्स्मरेति भावः । शार्करम्, विकारे संस्कृतार्थे वाण् । अंधरात्, 'भीत्रा-' इत्यपादानत्वम् ॥

  मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् ।
  न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः ॥ ९२ ॥

मुखादिति ॥ मुखादारभ्य नाभ्यन्तं नाभिपर्यन्तं त्वदङ्गं चुम्बं चुम्बं चुम्बित्वा चुम्बित्वा अतृप्तवान्असमाप्तचुम्बनेच्छुः(च्छः) सन्नहं स्मरमन्दिरं यत्त्वदङ्गं पाण्यादिना प्रतिबन्धाल्लज्जातिशयाद्वा गोपितत्वाच्चुम्बितुं न प्रापं तत्स्मरमन्दिरं धन्या स्मृतिश्चुम्बतु। तत्स्मरमन्दिरं स्मृतिविषयीभवतु । अतिरागात्स्मरमन्दिरमपि चुम्बितुं प्रवृत्तस्य मम तन्न दत्तवती तत्स्मरेति भावः । चक्रवर्तिनापि मया यच्चुम्बितुं न प्राप्तं तत्स्मृत्या प्राप्तम्, अत एव सा धन्येति भावः । मुखाक्षिकक्षाकुचनाभिमूलवराङ्गभागाश्चुम्बनस्थानानि ॥

  कमपि स्मरकेलिं तं स्मर यत्र भवन्निति ।
  मया विहितसंबुद्धिर्व्रीडिता स्मितवत्यसि ॥ ९३ ॥

कमिति ॥ त्वं कमपि तमनिर्वचनीयं लोकोत्तरपुरुषायिताख्यं स्मरकेलिं स्मर । (तं कम्-) यत्र कामकेलौ पुंस्त्वारोपेण भवन्नित्येवं पुंलिङ्गोचितसंबुद्ध्या मया विहिता संबुद्धिर्यस्याः सा त्वं वीडिता स्मितवत्यसि । कामशास्त्राभ्यासकौशलाद्यद्विपरीतसुरतमकार्षीः, तत्स्मरेत्यर्थः । केलेः पुंस्त्वं पूर्वं दर्शितम् ॥