पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०१
विंशः सर्गः।

पाणिभ्यां सख्याः कलायाः श्रवसी कर्णौ पिदधे आच्छादितवती इतः परमप्य(ति) संगुप्तमपि रहस्यमस्यै कथयिष्यति, तदनया नाकर्णनीयमिति बुद्ध्या तस्याः कर्णौ प्यधत्तेत्यर्थः॥

 कर्णपिधान एवोत्प्रेक्षते-

कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले ।
अप्यपीडयतां भैमीकरकोकनदे तु(नु) तौ ॥ ९८ ॥

 कर्णाविति ॥ भैमीकरावेव कोकनदे रक्तोत्पले अपि कर्तारौ(?) सख्याः कलाया नेत्रे एवासितोत्पले तस्या एव कर्णौ पीडयती यन्त्रयन्ती वीक्ष्य तौ कलाकर्णौ कर्मभूतौ अपीडयतां नु । कलानेत्रनीलोत्पलयोराकर्णपूर्णतया कर्णाक्रमणात्पीडाकरणमिव । भैमीकररक्तोत्पले अपि साजात्यान्नेत्रनीलोत्पलसाहायकाचरणबुद्ध्येव स्पर्धयेव वा (भैमीकरकोकनदे अपि) तत्कर्णौ पीडयामासतुः किमिति भावः। सवर्णयोः साहायकं स्पर्धा च युक्ता । पीडयती, 'वा नपुंसकस्य' इति नुमभावः॥

 पुनरप्यन्यथोत्प्रेक्षते-

तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया ।
पिदधाविव वैदर्भी स्वरहस्याभिसंधिना ॥ ९९ ॥

 तदिति ॥ वैदर्भी सखीकर्णौ प्रविष्टं तत्पूर्वोक्तं रहस्यरूपं पत्युरालपितं स्वरहस्यमेतत्कर्णाभ्यां सकाशाद्बहिर्मा गादित्यभिसंधिनाभिप्रायेणेव ह्रिया पिदधौ आच्छादितवती । अन्यदपि गोप्यं वस्तु भाण्डे निक्षिप्यान्यो मा स्म ज्ञासीदिति तद्द्वारं पिधीयते ॥

तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि।
आरात्तत्त्वमबुद्ध्वापि सख्यः सिष्मियिरेऽपराः ॥१०० ॥

 तमिति ॥ आराद्दूरे स्थिता अप्यपराः सख्यस्तत्त्वं नलहासकारणमबुद्ध्वापि सिष्मियिरे जहसुः । कस्मिन्सति-नले तं पूर्वोक्तं प्रियायाः केलिमालोक्य सोत्प्रासहासिनि उत्प्रासेनोच्चैस्त्वेन सह यथा तथा हसति सति । नलाट्टहासश्रवणमात्रेण सिष्मियिर इत्यर्थः॥

दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः ।
ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः ॥ १०१ ॥

 दम्पत्योरिति ॥ ताः सख्य एव धरायामुर्वश्याद्यप्सरसस्तयोर्दम्पत्योरुपरि प्रीत्या प्रेमातिशयेन सुरभीणि स्मितान्येव पुष्पाणि ववृषुः । सर्वा अपि सख्यस्तावुभौ क्रीडावशाज्जहसुरित्यर्थः । मुखानिलसुरभित्वेन तासां पद्मिनीत्वं सूचितम् । तयोः, 'षष्ठ्यंतसर्थ-' इति षष्ठी॥