पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०३
विंशः सर्गः।

बदरिकाश्रमस्थो लोकः मुनिजनस्थानभूतकल्पग्रामनिवासिनो जनस्य कोलाहलं शृणोतीति ती(तै)र्थिकप्रसिद्धिः॥

अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः ।
नलमौलिमणौ तस्या भावमाकलयत्कला ॥ १०६॥

 अथेति ॥ अथ कलासख्या नलवाक्यशेषश्रवणानन्तरं कला स्वपृष्ठे निष्टा स्थितिर्यस्याः कर्णपिधानपरतया कलापश्चाद्भागे स्थितायाः, तथा-कलासखीं प्रति रहस्यं ब्रुवतो नैषधस्याभिधा वचनानि शृण्वत्यास्तस्या भैम्या भावं रहस्यकथनाद्वा सकोपाद्यभिव्यञ्जकमुखचेष्टाविशेषं नलस्य मौलिमणौ शिरोरत्ने प्रतिबिम्बवशादाकलयदज्ञासीत् । ददर्शेत्यर्थः । नलेन कलासखीं प्रति रहस्ये उक्ते भैम्या हास्यकोपादिचेष्टां नलमौलिरत्ने प्रतिबिम्बितं सा कला ददर्श नत्वशृणोदित्यर्थः॥

प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा ।
तद्व्रीडाद्यनुकुर्वाणा शृण्वतीवान्वमायि सा ॥ १०७॥

 प्रतिबिम्बेति ॥ प्रतिबिम्बे ईक्षितैः सख्याः पृष्ठस्थिताया भैम्याः स्वपक्षसख्या मुखाकूतैर्व्रीडाहास्यादिसूचकमुखसंकोचविकासादिचेष्टितैः कृत्वा कृताऽनुमितिर्यया तादृङ्मुखविकारदर्शनात्प्रायेण नलेनैवमुक्तं स्यादित्येवंकृता नलवाक्यार्थसंभावना यया सा, तथा तस्या भैम्याः स्वपक्षसख्या वा नलवाक्यानुरूपं व्रीडाद्यनुकुर्वती प्रतिबिम्बदर्शनादेवाङ्गसंकोचाद्यभिनयेनानुकुर्वाणा दर्शयन्ती सा कला भैमीपाणिपिहितकर्णाऽपितद्व्रीडाद्यनुकरणादेव भैमीवत् , सखीवद्वा नलवचनं शृण्वतीवान्वमानि(यि) भैमीनलाभ्यां संभाविता । तद्व्रीडादि, 'न लोका-' इति निषेधाद्द्वितीया । अनुकुर्वाणा, 'अनुपराभ्यां कृञः' इति परस्मैपदविधानाच्छानजभावे 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति ताच्छील्ये शक्तौ वा चानश् ॥

कारं कारं तथाकारमूचे साऽशृणवंतमाम् ।
मिथ्या वेत्थ गिरश्चेत्तद्व्यर्थाः स्युर्मम देवताः ॥ १०८ ॥

 कारमिति ॥ सा कला तथा पूर्वोक्तं भैम्याः स्वपक्षसख्या वा नलमौलिमणिदृष्टं मुखव्रीडाहर्षाद्याकारं कारं कारं कृत्वा कृत्वा अनया सर्वं श्रुतमिति यथा प्रतीतिर्भवति तथाभिनयं कृत्वा इति ऊचे । इति किम्-अहं भवदीयं सर्वं वृत्तान्तमशृणवंतमां नितरामाकर्णितवत्यस्मि । हे भैमि, त्वं भवद्वचनश्रवणसूचिका मम गिरो मिथ्या चेद्वेत्थ जानीये । अनाकर्णितमप्याकर्णितमियं वदतीति मन्यसे चेत्तत्तर्हि अभीष्टसिद्ध्यर्थं प्रत्यहं पूज्यमाना मम गौर्यादीष्टदेवता निष्फलाः स्युरिष्टदायिन्यो मा भूवन्निति मया शपथः क्रियते इति नलं प्रत्यवोचद्वा । अशृणवंतमाम् 'तिङश्च' इति तमप् ॥

मत्कर्णभूषणानां तु राजन्निबिडपीडनात् ।
व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया ॥ १०९ ॥