पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०९
विंशः सर्गः

 तेनेति ॥ क्लिन्नीकृत्येति । युग्मम् । ततो जलसेकानन्तरमयं नलस्तेन तावता जलसेकेनापि गृहाद्बहिर्नापसर्पन्त्यौ निर्गच्छन्त्यौ ते सख्यौ कुचदर्शनाज्जातेन हर्षेण दमयन्तीमदर्शयत् । ननु तन्वि त्वं मे पुरः इमे सख्यौ पश्य । किंभूते सख्यौ-अम्भसा कर्तृभूतेन, करणभूतेन, कर्तृभूतेन मया वा वसनं क्लिन्नीकृत्यार्द्रीकृत्य जैनप्रवजितीकृते दिगम्बरपरिव्राजिकात्वं प्रापिते । यतः-सक्षौमभावे दुकूलसाहित्ये सत्यपि निर्विघ्नमन्तरायरहितं स्तनदर्शनं ययोस्ते । सूक्ष्मतरे वस्त्रे जलसिक्ते निरन्तरमङ्गदर्शनं भवति । नग्नप्राये एते सख्यौ ममाग्रे विलोकयति तयोर्लज्जात्याजनद्वारा बहिर्निर्गमनार्थं कुचदर्शनोपलक्षकपाणिचेष्टाभिनयेनादर्शयदित्यर्थः । दृशेर्बुद्ध्यर्थत्वाद्दमयन्तीमित्यणौ कर्तुर्णौ कर्मत्वम् । जैनानां दिगम्बराणां प्रवजिता प्रवाजिका । अतादृश्यौ तादृश्यौ कृते इति च्विः॥

अम्बुनः शंबरत्वेन मायैवाविरभूदियम् ।
यत्पटावृतमप्यङ्गमनयोः कथयत्यदः॥१३०॥

 अम्बुन इति ॥ अदो जलं कर्तृ अनयोः सख्योः पटावृतमप्यङ्गं स्तनजघनादि कर्म यत्कथयति प्रकटयति सेयं अम्बुनः 'नीरक्षीराम्बुशंबरम्' इत्यभिधानाच्छंबरसंज्ञत्वेन, अथ च शंबराख्यदैत्यभावेन मायैवाविरभूत् प्रकटा अजनि । शाम्बरी हि मायाऽविद्यमानमपि वस्तु प्रकाशयति । अत्रापि निर्जले जलदर्शनादनग्ने नग्नीकरणाच्चेयं शाम्बरी मायैव प्रकटाभूदिति नलवचः। कविवचो वा । एवमुत्तरश्लोकेपि ज्ञेयम् ॥

 अत्रैव पक्षान्तरमाह-

वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् ।
चारुहारमणिश्रेणितारवीक्षणलक्षणा ॥ १३१ ॥

 वासस इति ॥ वाऽथवा स्तनाद्यङ्गानामियं दृश्यता प्रत्यक्षगोचरता वाससोऽम्बरत्वेनातिसूक्ष्मवस्त्रविशेषत्वेन, अथ चाम्बरशब्दवाच्यत्वसादृश्यादाकाशत्वेनोपागमत्समागता जाता । निरावरणमम्बरे स्थितं वस्तु यथा प्रकटं दृश्यते तथैव वस्त्रावृतमपि चेदृश्यते तर्हि तत्राम्बरत्वमेव हेतुरित्यर्थः । किंभूता-चारवः स्थूलतरनिर्मलमनोहरा हारमणयः मौक्तिकानि तेषां श्रेणयः पङ्क्तय एव तारा नक्षत्राणि तेषां वीक्षणमेव लक्षणं स्वरूपं चिह्नं वा यस्याः सा । अम्बरे हि नक्षत्रदर्शनं भवति । तदेव चास्य लक्षणं तद्वदत्रापि वस्त्रावृतत्वेऽपि जलसेकद्वारा मुक्ताफलानि स्फुटानि दृश्यन्ते । तस्मादम्बरत्वमेव हेतुर्युक्त इत्यर्थः । तारशब्दस्य नक्षत्रवाचित्वं बहुधा दर्शितम् ॥

ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः ।
तयोर्वीक्षारसात्सख्यः सर्वा निश्चक्रमुः क्रमात ॥ १३२ ॥

 ते इति ॥ ते सख्यौ नितरां जलसेकाद्गोप्याङ्गदर्शनरूपां निजावस्थां निरीक्ष्य ह्रीणे लज्जिते सत्यौ ततस्तस्माद्रतिगृहान्निर्ययतुर्बहिर्निर्जग्मतुः । अन्या अपि सर्वाः सख्यस्त-