धौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः । |
धौतेपीति ॥ कीर्तिधाराभिः कीर्तिपूरैर्धौते अत एव चारुणि मनोज्ञे धवले एवंविधेऽपि द्विषश्चरिते मृषामषीलवैरसत्यलक्षणमषीलेशैः कृत्वा लक्ष्म कलङ्कं लेखितुं के जनाः शिल्पिनश्चतुरा न भवन्ति । अपितु सर्वेऽप्यलीकदोषारोपं कुर्वन्त्येवेति मद्विरोधितयोरेतयोर्वचसि न विश्वसनीयमित्यर्थः । अन्येपि शिल्पिनो जलधाराक्षालिते रमणीये कुड्यादौ मष्यादिवर्णकैश्चित्रं लिखन्ति । के द्विषः शिल्पिनो नेति वा ॥
ते सख्यावाचचक्षाते न किंचिद्ब्रूवहे बहु । |
ते इति ॥ ततस्ते सख्यौ इति आचचक्षाते ऊचतुः । इति किम्-आवामन्यत्किंचिद्बह्वधिकं न ब्रूवहे । किंतु यस्मै प्रयोजनाय सर्वा वयं युवाभ्यां गृहाद्बहिर्निष्कासितास्तदेव परं केवलमावां वक्ष्यावो वदिष्यावः सर्वेषामग्रे 'सुरतार्थं वयं निष्कासिताः' इति कथयिष्यावो न त्वन्यत्किंचिदिति ॥
स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः। |
स्थापत्यैरिति ॥ ते सख्यौ तथावाचि सुरतार्थं वयं निष्कासिता इति वचने विषये स्थापत्यैः सौविदल्लैर्नपुंसकैः करकम्पेन कृतामपि वारणां निषेधं न वित्तः स्म जानीतः स्म । यस्माद्वर्षीयस्त्वेनातिवार्धकेन चलन्तः करा येषां तैः। वार्धकातिशयजनितवातदोषवशेन स्वाभाविककरकम्पनभ्रान्त्या कृतमपि निषेधं न वित्तः स्मेत्यर्थः। 'सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते' इत्यमरः। अतिशयेन वृद्धो वर्षीयान् । ईयसुनि 'प्रिय स्थिर-' इति वर्षादेशः॥
अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् । |
अपेति ॥ हे धृष्टे अतिनिर्लज्जे, सख्यौ युवामितो गृहादपयातं निर्गच्छतम् । यस्माद्वां युवयोरश्लीलशीलतां ग्राम्यभाषणस्वभावत्वं धिक् निन्द्यमिति तैः स्थापत्यैरुक्ते गदिते ते सख्यौ तेभ्यो मारणाभिया व्यतिद्राते स्म पलायांचक्रतुः । एवमुक्तवन्तस्ते कञ्चुकिनश्च व्यतिद्राते स्म पलायांचक्रुः । तयोः पलायमानयोः पश्चाल्लगन्ति स्म । तयोः संभोगेच्छुतां ज्ञात्वा सखीतर्जनव्याजेन तेऽपि निर्गता इति भावः । ते इति, व्यतिद्राते इति च द्विवचनबहुवचनश्लेषः । इत्युक्ते सतीति वा । व्यतिद्राते वचनत्रयेपि तुल्यं