पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१४
नैषधीयचरिते

न्यमुच्चैः कलकलं सख्यो यथा कुर्वन्ति वृत्तं कुचमर्दनं स्वयमेव जानन्ति तथा तत्कुचौ ममर्देति भावः । लोकेपि स्वकृतां मुद्रां लुप्तां दृष्ट्वान्यथाभावशङ्कयोच्चैः पूत्कारं कुर्वन्तीति ॥

तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः ।
सोवादीत्तां हृदिस्थं ते किं मामभिनदेष न ॥१४६ ॥

 तदिति ॥ तस्याः कुचे नखमारोप्य निखाय स्वयमेव चमत्कुर्वन्नङ्गसंकोचाभिनयपूर्वं शङ्कमानः नखक्षतपीडाविशेषादेव तया किंचित्कोपेनेक्षितः स तामवादीत्-हे भैमि, एष नखस्ते हृदिस्थं मां किं नाभिनद्, अपितु-मामपि व्यदारयदेव । अन्यथा कथं त्वदीये हृदि नखे क्षिप्ते ममाङ्गचमत्कार इति ॥

अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥ १४७॥

 अहो इति ॥ हे भैमि, तीक्ष्णमुखैर्नापितकल्पितशिताग्रैर्मम नखैः शुद्धे निष्कपटे हृदि अशुद्धं रुधिरं वर्तते (कल्पते) यत्र तद्यथा तथाऽङ्को मयूरपदादिचिह्नमकल्पि अकारीति यत्, सेयं महती अनौचिती अहो चित्रम् । कैरिव-दोषारोपरूपपरुषभाषणवशात्तीक्ष्णमुखैर्दुःसहवदनैः खलैरिव । यथा-खलैः शुद्धेऽपि पुरुषे अशुद्धवत्सदोषपुरुष इवाङ्को दोषारोपः कल्प्यते, सा यथानौचिती । नखक्षतेन रुष्टायाः स्वेनैव नखानामनौचित्यप्रकटनव्याजेन प्रसादनामकरोदित्यर्थः। अशुद्धवदिति पक्षे सप्तमीसमर्थाद्वतिः ॥

यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ।
भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् ॥ १४८ ॥

 यदिति ॥ हे भैमि, गुणमयं सूक्ष्मश्लक्ष्णतरतन्तुकं ते वासः नितम्बोरु जघनमूरू च यद्यस्माच्चुम्बति स्पृशति, तथा यस्माच्च ते स्तनौ आलिङ्गति तत्तस्मात्कारणाच्छुभानां रमणीयानां दशानां प्रान्ततन्तूनां यद्योग्यमुचितं तद्भुङ्क्ते तादृशं भोगमनुभवतीत्यर्थः । यत्तदौ वासोविशेषणे वा । अथ च-यो गुणमयः शौर्यौदार्यादिगुणपूर्णः निर्दोषश्च शुभाया दशायाः पूर्वाचरितपुण्यपाकोपनतशुभग्रहयोगानुकूलसमयविशेषस्योचितं भोगं लभते स एव सुन्दरतररमणीनितम्बोरचुम्बनं तत्कुचालिङ्गनं च लभते नान्य इति । त्वन्नितम्बादिचुम्बनकारिणो मत्तोपि वसनमेव धन्यमिति । नितम्बोरु, प्राण्यङ्गत्वादेकवद्भावः॥

लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् ।
तन्नितम्बं स निश्वस्य निनिन्द दिनदीर्घताम् ॥ १४९ ॥

 लीनेति ॥ सात्त्विकस्वेदवशादतिसूक्ष्मत्वात्समच्छवीभूय लीनं संलग्नं चीनं नेत्राख्यमंशुकं यत्र, तथा-स्वेदि सात्त्विकस्वेदयुक्तम् , अतएव-दरालोक्यमीषद्दृश्यं तस्या