पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१५
विंशः सर्गः

नितम्बं विलोकयन् स कामोन्मत्तो भूत्वा निश्वस्य दिने सुरतनिषेधान्निराशतया निश्वासमोचनेन दुःखमभिव्यज्य दिनस्य दीर्घतां कथं वा दिनं शीघ्रं गमिष्यतीति निनिन्द । सुरतार्थं दिनावसानमभिललाषेत्यर्थः । कामपरवशत्वात्संभोगेच्छुरभूत् , दिवा तन्निषेधाच्च सुरते सहसा न प्रवृत्त[१] इति भावः ॥

देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम् ।
चकाराधरपानस्य तत्रैवालीकचापलम् ॥ १५०॥

 देशमिति ॥ असौ प्रियाया दन्तच्छदोऽधरस्तस्यान्तिकं समीपवर्तिनं देशं कपोलचिबुकादिभागमेव पूर्वं दशनैर्ददंश । अनन्तरं तत्रैवाधरसमीपदेश एव अधरोपान्तस्थापितमुख एवाधरपानस्यालीकमेव चापलं (पुनः)पुनरोष्ठचालनचुंकारादित्वरां चकार । चापलास्यालीकत्वं च तादृगभिनयमात्रकरणात्तात्त्विकचापलकरणेऽप्यधरसंबन्धाभावाज्ज्ञेयम् । संबुभुक्षातिशयाद्यावता क्षणेनाधरश्चुम्बितुं प्राप्यते तावन्तमपि विलम्बं सोढुमशक्तः सन्नयमधर एवेति भ्रान्त्या वाऽधरोपान्तदेश एव दंशादि चकारेति भावः। अतिरिरंसोरियं जातिः॥

न क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् ।
तत्प्रसीद प्रसीदेति स तां प्रीतामकोपयत् ॥ १५१॥

 नेति॥ स परिहासादिवशादालिङ्गनादिवशाच्च पूर्वं प्रीतां प्रसन्नामपि तामित्युक्त्वाऽकोपयत् । इति किम्-हे चपलापाङ्गि, अहं स्मरशरव्यथां सोढुं न क्षमे शक्तोऽस्मि यतः, तत्तस्मात्त्वं मम प्रसीद प्रसीद मह्यं सुरतं देहि देहि । दिने रन्तुमनुचितत्वात्कोपव्याजेनापि दिनं गमयितुं तामकोपयदित्यर्थः । प्रसादनमपि कोपं विना न संभवतीति कोपसंपादनम् । शरव्यतामिति च पाठः। चपलापाङ्गि, 'अङ्गगात्र-' इति ङीष् ॥

नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् ।
ततः स्तनतटौ ताभ्यां जघनं घनमीयतुः ॥१५२ ॥

 नेत्रे इति ॥ निषधनाथस्य नेत्रे पूर्वं प्रियाया वदनाम्बुजम् , ततोऽनन्तरं स्तनतटौ, ततोऽनन्तरं च ताभ्यां स्तनतटाभ्यां सकाशात् घनं पीवरं जघनमीयतुः प्रापतुः। सुरतौत्सुक्यात्सादरं वदनादिक्रमेणालोकयदिति भावः । अम्बुजतटघनपदैः सादरावलोकनार्हत्वं सूचितम् । घनपदं सादरावलोकनद्योतनार्थं क्रियाविशेषणत्वेन सर्वत्र वा योज्यम् ॥


  1. इदं च व्याख्यानं 'आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः । आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति' ( १८ सर्गे २) इति प्रागुक्तविरोधाच्चिन्त्यम् । तस्मादस्य ग्रीष्मऋतुपरतया व्याख्यानं कल्पयित्वा यथाकथंचिद्योजना कार्या ।