पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१९
एकविंशः सर्गः।


एकविंशः सर्गः

 इदानीं पूर्वसर्गान्तप्रस्तावितमध्याह्नस्नानदेवपूजादिवर्णनार्थमेकविंशं सर्गमारभते-

तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः ।
अर्पणान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनरूचे ॥१॥

 तमिति ॥ विदर्भरमण्या भैम्या मणिसौधान्मणिबद्धसुधाधवलितप्रासादादुज्जिहानं बहिनिर्गच्छन्तं नलमनु लक्षीकृत्य दर्शिता अन्तःपुरद्वारि प्रणामादिना ज्ञापिता सेवा यैरवसरपर्यन्तं बहिःस्थितैरन्तरङ्गार्नरेन्द्रर्नलहस्तावलम्बनार्थं निजकरस्यार्पणाद्धेतोरा- स्मनः स्वस्य करदता पुनरूचे पुनरुक्ता चक्रे इत्यर्थः । पूर्वं सर्वेपि राजानो बलिरूपकरसमर्पणात्करदा अभूवन् , इदानीं तु सोपानमार्गेणावरोहतो नलस्य हस्तावलम्बनार्थं निजपाणिसमर्पणात्करदा जाता इति च्छलेनोत्प्रेक्षा । एतेन नलस्य चक्रवर्तित्वं द्योत्यते ॥

तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगाकठिनेति ।
तां प्यधत्त शिरसां खलु माल्यै राजराजिरभितः प्रणमन्ती ॥२॥

 तस्येति ॥ खल्वितीव हेतोरभितः पार्श्वद्वयेऽपि प्रणमन्ती राजराजिर्नृपपरम्परा तां सिचयैर्बद्धामपि पद्धतिं शिरसां माल्यैः शिरसि धृताभिः पुष्पमालाभिः प्यधत्त आच्छादयति स्म । इति किम्-चीनसिचयैर्देशविशेषोद्भवैः सूक्ष्ममृदुभिर्वस्त्रैर्बद्धा सज्जिता छादितापि सती पद्धतिस्तस्य नलस्य पदयुगात्सकाशात्कठिनेति । मृदुतरयोर्हि चरणयोर्मुदुतरपुष्पवद्धायां भुवि गमनं युक्तम् । शिरोधृतपुष्पस्रंसनं यावद्भवति तावत्पर्यन्तं मध्येमार्गं तस्य सादरं दण्डवत्प्रणामं सर्वैपि चक्रुरित्यर्थः ॥

द्रागुपाह्रियत तस्य नृपैस्तदृष्टिदानबहुमानकृतार्थैः ।
स्वस्य दिश्यमथ रत्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम् ॥३॥

 द्रागिति ॥ अथ प्रणामानन्तरं तेन कृतं दृष्टिदानं नेत्रनिरीक्षणं तल्लक्षणेन बहुमानेन कृतार्थैः सफलश्रमैर्नृपैर्दिशि भवं दिश्यं स्वस्य दिश्यं स्वीयदेशभवं तत्रान्यत्र वा पूर्वं दुर्लभमत्युत्तमम्, तथा यत्नेन बुद्धिपूर्वं शिक्षावशेन कल्पितैरारोपितैर्वृत्तत्वोज्ज्वलत्वातिरमणीयगत्या(कत्वा)दिगुणविशेषैरधिकं नितरां चित्रमाश्चर्यरूपं सहजैराहितैश्च गुणैरतितरामाश्चर्यकारिमणिमुक्ताकरितुरगादिरत्नं वस्तु तस्य द्राक् शीघ्र प्रणा- मानन्तरमव्यवहितमेवोपाह्रियतोपदीकृतम् । तत्रोपदीकृते रत्नजाते दृष्टिदानमेव बहुमान इति वा । केनेदमानीतमित्यादरप्रश्नपूर्वं तेषु राजस्वपि दृष्टिदानमेवेति वा । स्वस्वेतिपाठे-स्वं स्वं च तद्दिश्यं चेत्यर्थः । यन्नेति पाठे-यत्कल्पितगुणाधिकचित्रं न भवति, किंतु स्वाभाविकगुणाधिकचित्रमेव, तद्रत्नमिति संबन्धः । दिश्यम्,भवार्थे दिगादित्वाद्यत् । देश्यमिति पाठेपि । रत्नं, जातावेकवचनम् । एवमुत्तरश्लोकेपि ॥


[१]

  1. अन्याक्षुण्णेति पूर्वपदं भाषितपुंस्कमतः पुंवदित्यर्थः । यथाश्रुतन्यासस्तु चिन्त्यः ।