पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२०
नैषधीयचरिते


अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् ।
रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्न नृपास्तत् ॥ ४॥

 अङ्गुलीति ॥ अन्ये चिरकालसेविनस्तदानीमेवागता वा नृपा अन्यनृपर्ढौंकितमुपदीकृतं तत्पूर्वोक्तं मणिमुक्तादिरत्नजातमेव तस्य नलस्य प्रसादं पारितोषिकं दानमलभन्त । किंभूतम्-अङ्गुलीचलनेन लोचनभङ्गया प्रसादसूचकनेत्रवीक्षणविशेषेण भ्रूतरङ्गेण च एतस्मै एतत् , एतस्मै एतद्देहीति सेवकान् प्रति एतत्त्वं गृहाण, एतत्त्वं गृहाणेति राज्ञः प्रत्येव वा विशेषेण निवेदितं दानं यस्य । अन्यैरानीतमन्येभ्यो दत्तवान्, न तु कोशागारे निवेशितवान् इत्यनेनौदार्यातिशयश्चातुर्यं च सूच्यते । चतुरो हि तदीयमेव तस्मै न ददाति । अङ्गुल्यादिचालनेन दाननिवेदनमीश्वरजातिः॥

तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य ।
अस्त्रशस्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः ॥ ५॥

 तानिति ॥ अथ नूतनागतराजकृतोपदादानानन्तरं चिरागतराजभ्यो वितरणानन्तरमसौ अमितौजा अतुल्यपराक्रमो नलो नूतनागतान्राज्ञः कुशलसूनृतसेकैः कुशलप्रश्नसंवन्धिसत्यप्रियवचनामृतसेचनैः भवतां राष्ट्रे देहे च कुशलं, भवतां कार्यं करिष्यामि' इत्येवंरूपैः कृत्वा तर्पितान् प्रीणितान् स बहुमानं स्वशिबिरं प्रति विसृज्य शैष्यकेण शिष्यभावेन प्रयोजकेनोपनमितान्समीपमागतानस्त्रादिशिक्षार्थं समीपमागतानन्यान्नृपानस्त्राण्याग्नेयादीनि, शस्त्राणि बाणादीनि तेषां खुरलीषु हस्तचरणादिसंस्थानचातुरीवि. शेषेषु विनिन्ये । तद्विषयकौशलमशिक्षयदित्यर्थः। क इव-पितेव । शैष्यकेति भावे योपधादवुञ् । शिष्यतेति च पाठः॥

मर्त्यदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य ।
स्वेदविन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छुः ॥ ६ ॥

 मर्त्येति ॥ स नल आप्लवनेच्छुः जलावगाहनाय साभिलाषोऽभवत् । किंभूतः-मर्त्येषु दुष्प्रचरमविद्यमानप्रसरं मत्यैर्दुःप्रचर्यते दुःप्रचरं नलव्यतिरिक्तैर्मर्त्यमात्रैरज्ञाताशेषविशेषमाग्नेयाद्यस्त्राणां विचारं मोक्षोपसंहारोपायप्रकारविशेषं चारुः प्रौढप्रतिभः शिष्यजनस्तत्समूह, चारु सम्यग्वाऽनुशिष्य शिक्षयित्वा स्थितः, अनन्तरं श्रमवशाज्जाता ये स्वेदबिन्दुकास्ते संजाता यस्य तादृशो गोधिर्ललाटं यस्य, अत एव -धीरं दीर्घं न धीरमधीरमल्पं श्वसन् । बिन्दुकेत्यल्पार्थे कन् । तारकादित्वादितच् । 'ललाटमलिकं गोधिः' इत्यमरः ॥

यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् ।
गन्धवार्भिरनुबन्धितभृङ्गैरङ्गनाः सिषिचुरुच्चकुचास्तम् ॥ ७ ॥