पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
द्वितीयः सर्गः।

शोभा तां दक्षिणनयनमङ्गीकरोतीत्यत्रापि विनिमयः । श्रुतिगामित्वेन दक्षिणं वाममिव वामं दक्षिणमिवेत्यत्रापि सादृश्य एव तात्पर्यं ज्ञेयम् । तस्या-दमस्वसुः संबन्धी श्रुतदृष्टाः श्रुताः पुराणादौ, दृष्टाः कासुचित्सुन्दरीषु । यद्वा-कासुचित्स्त्रीष्वेव श्रुताः कासुचिदृXष्टा रमणीगुणाः श्रुतिगामितया लोकाकर्णनविषयत्वेन व्यतिभाते विनिमयेन शोभन्त इति बहुवचनम् । पुराणादावन्यस्त्रीषु वा ये श्रुतास्ते कासुचिदृष्टास्ते भैम्यामेव श्रूयन्त इति श्रुतानां दृष्टानां च स्त्रीगुणानां दमस्वसुः संबन्धिनां सर्वेषां श्रुतिगामित्वं विद्यते । ततः श्रुतानां स्त्रीगुणानां दमस्वसुः संबन्धिनां यच्छ्रुतिगामितया शोभनं तदृXष्टैरङ्गीकृतम् । एवं दृष्टानां शोभनं तच्छुतैरङ्गीकृतमित्यत्रापि यथाकथंचिद्विनिमयः । यथा श्रुता भैमीसंबन्धिनः श्रुतिगामितया शोभन्ते तथा दृष्टा अपि भैमीसंबन्धिनः श्रुतिगामितया शोभन्त इत्यत्रापि सादृश्य एव तात्पर्यम् । श्रुतदृष्टा अपि सर्वे गुणा भैम्यां विद्यन्त इति भावः । सामुद्रिकशास्त्रे श्रुतानां पद्मिन्यादौ दृष्टानामिति वा यथाकथंचिज्ज्ञेयम् । विस्तरभयान्न लिख्यते । 'श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि' इति विश्वः । गामी गम्यादि । आवश्यके ताच्छील्ये वा णिनिः । 'त्वतलो:-' इति पुंवत् । व्यतिपूर्वस्य भातेः 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । द्विवचने सवर्णदीर्घत्वे कृते, बहुवचने च 'आत्मनेपदेष्वनतः' इति झस्यादादेशे शब्लुक् टेरेत्वं सर्वत्र । वचनश्लेषः॥

नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुर्विधम् ॥२३॥

 नलिनमिति ॥ तदीक्षणे भैभीनेत्रे पृषतीमञ्जनशलाकामस्पृशती अप्राप्ते अञ्जनानञ्चिते सती नलिनं कमलं मलिनं स्वकान्त्या दूषितं विदधाते कुर्वाते । किंभूते तदीक्षणेविवृण्वती आत्मानं प्रकाशयन्ती प्रसारयन्ती । ऋजुरीत्या विलोकमाने । अञ्जनाञ्चितेऽञ्जनपूजिते साञ्जने सती तदीक्षणे खञ्जनमपि खञ्जरीटमपि रुचिगर्वेण कान्तिमदेन दुर्विधं दरिद्रं विदधाते । अवतंसीकृतं कमलं कटाक्षावलोकनप्रसृतया स्वकान्त्या मलिनं श्यामं विवृण्वती कुर्वती, तथा-पृषतीं हरिणीमस्पृशती नेत्रविषयेऽगणयन्ती एवंविधे भैमीनेत्रे कज्जलाञ्चिते खञ्जनमिति पूर्ववत् । अञ्जनपूजनात्पूर्वं स्वकान्त्या कमलं जितं, हरिणीनेत्रयोस्तु भैमीनेत्रशोभासंभावनापि नास्ति । अञ्जनपूजनानन्तरं खञ्जनस्य मन्नेत्रसदृशे नान्यस्येति गर्वस्तद्रहितं कुर्वाते इत्यर्थ इति वा, रुचि कान्तिविषये दर्पेण रहितमिति वा । रुचीति भिन्नं पदम् । खञ्जनो हि शुक्लकृष्णोऽतिसरलोऽतिचञ्चलश्च । अतस्तेन साम्यसंभावनायां कज्जलदानानन्तरं तदधिककान्तित्वात्सोऽपि जित इति भावः । मलिनं स्वगतं श्यामं गुणं विलोकनवशाद्विवृण्वती प्रकाशयन्ती नलिनं रुचिगर्वदुर्विधं विदधाते इति वा, मलिनं श्यामं नलिनं नीलोत्पलं रुचिगर्वदुर्विधं विदधाते.


 १ 'अत्र वचनश्लेषक्रियाकारकदीपकसंसृष्टिः' इति साहित्यविद्याधरी | 'अत्र लोकयुगादीनां त्रयाणामपि प्रकृतत्वात्केवलप्रकृतविषयतुल्ययोगिताभेदः । 'प्रस्तुताप्रस्तुतानां च केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति लक्षणात्' इति जीवातुः।