पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२१
एकविंशः सर्गः।


 यक्षेति ॥ उच्चकचा अङ्गनास्तं बहलपरिमलेन अनुबन्धिता मिलन्तो भृङ्गा येषु तैर्गन्धवारिभिः कर्पूरवासितजलैः सिषिचुः । अभ्यङ्गस्नानमकारयन्नित्यर्थः । किंभूतम्- प्राक् पूर्वं कर्पूरागरुकस्तूरीचन्दनकक्कोलचूर्णरूपेण यक्षकर्दमेन सुगन्धिद्रव्येण कृत्वा मृदु यथा तथा शनैर्मुदितमङ्गं यस्य पश्चात्कुरङ्गमदेन कस्तूरिकया मीलितः संबन्धं प्रापितो मौलिर्यस्य । कस्तूरिकानिर्वासिततैलशिरसमिति यावत् । 'तथा कर्पूरमगुरुः कस्तूरी चन्दनं तथा । कक्कोलं च भवेदेभिः पञ्चभिर्यक्षकर्दमः ॥' इति गरुडपुराणम् ॥

भूभृतं पृथुतपोघनमाप्तस्तं शुचिः स्नपयतिस्म पुरोधाः ।
संदधज्जलधरस्स्वलदोघस्तीर्थवारिलहरीरुपरिष्टात् ॥ ८ ॥

 भूभृतमिति ॥ अभ्यङ्गस्नानानन्तरं शुचिः साचारः आप्तो हितः परम्परायातः पुरोधाः जलधराज्जलपूर्णात्स्वर्णकलशात्स्खलन् पतन ओधः संततधारापरम्परा यासां ताः प्रयागादितीर्थवारीणां लहरीस्तरङ्गानुपरिष्टात्संदधत् प्रक्षिपन्सन् पृथुना तपसा चान्द्रायणादिजन्येन पुण्येन घनं पूर्णं तं भूभृतं नलं स्नपयति स्म । पूर्वमुष्णोदकमानेन शरीरशुद्धिं कारयित्वा संकल्पपूर्वं शीतलोदकेन वेदोक्तमन्त्रस्नानमकारयदिति भावः। शुचिराषाढः पृथुना तपसा माघमासेनाघनं माघमारभ्य वृक्षाणां गलितपत्रत्वादगहनम् , एवंभूतं पर्वतमभिषिञ्चतीति वा । 'तपा माघे (ऽथ)' इत्यमरः । 'शुचिस्त्वयम् । आषाढे' इति च ।

 स्नानकममाह-

प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत ।
स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् ॥ ९ ॥

 प्रेयसीति ॥ स्नायिनो मन्त्रवत्तीर्थजलावगाहनस्नानविधिना स्नानं कुर्वाणस्य तस्य करसरोरुह्युग्मं गर्भयोस्तर्जनीकनिष्टान्तरालयोधृतौ दर्भौ येनैवंभूतमराजत् शुशुभे । किंभूतमिव-उत्प्रेक्षते-प्रेयस्याः कुचवियोग एव हविर्भुक् तस्माज्जन्म यासां ता धूमविततीर्बिभ्रदिव । दर्भाणां श्यामत्वाद्भूमततित्वं युक्तम् ॥

कल्प्यमानममुनाचमनार्थं गाङ्गमम्बु चुलुकोदरचुम्बि।
निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे नु ॥१०॥

 कल्प्येति ॥ अमुना आचमनमर्थः प्रयोजनं यस्य आचमनं कर्तुं वा कल्प्यमानं स्वीक्रियमाणं चुलुकोदरचुम्बि चुलुकमध्यवर्ति गाङ्गमम्बु कर्तृ निर्मलत्वेन मिलितः स्वस्मिञ्जातः प्रतिबिम्बो यस्यास्तां द्यां स्वर्गमुपनीय समीपां कृत्वा हस्तप्राप्यां कृत्वा करेऽयच्छत् । 'दाण् दाने' । नु उत्प्रेक्षायाम् । स्नानप्रारम्भाचमनं चकारेत्यर्थः । अन्यदपि दुर्लभं वस्तु हस्ते आनीय दीयते ॥

मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा।
अङ्गमङ्गमनुकं परिरेभे तं मृदो जलमृदूर्गृहयालुम् ॥११॥