पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२४
 

चन्दनादिरचितो वर्तुलस्तिलकः स एव गौरवृत्तत्वान्मुखेन्दुर्यस्याः सा । तथा --'हस्तवस्त्रैर्न मार्जयेत्' इति व्यासवचनेन वैधस्नानानन्तरं वस्त्रादिना केशपरिमार्जनस्य निषेधारकेशेषु शेषं जलं केशप्रान्तेभ्यो गलधज्जलं जलबिन्दवस्त एव मौक्तिकानि दन्ताश्च यस्याः सा । यद्वा-जलमौक्तिकानि मुक्तावत्स्थूलजलबिन्दवस्त एव दन्ता यस्याः सा । एवंभूता रमणीयदशना तिलकं दधारेति भावः। अन्याप्येवंविधा तरुणी कंचिद्भजत इति॥

श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम् ।
वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिवासीत् ॥१७॥

 श्वैत्येति ॥ श्वैत्येन शैत्येन च जलं दैवतं येषां तैराप्यैः, जलदैवतं वरुणस्तत्संबन्धिभिर्वा वारुणैः, मन्त्रैः शब्दात्मकैः स्वादुतया मधुररसतया च जलगतविशिष्टरूपस्पर्शशब्दरसलक्षणस्वीयस्वीयविषयलाभेन प्रमुदितामतितरां संतुष्टां चतुरक्षीं क्रमेण चक्षु- स्त्वक्श्रोत्ररसनसमाहाररूपां नेत्रादिचतुष्टयीं वीक्ष्य अस्य प्राणेन्द्रियं सहजगन्धस्य पृथिव्यसाधारणगुणत्वाज्जले तदसंभवात्कर्पूरादिवासितस्य च जलस्य देवस्नपनादिधर्मकर्मसु प्रतिषेधादौपाधिकस्याप्यसंभवान्मोघो निष्कल एव धृतः सौरभे शोभनगन्धे लोभो थेन, लोभसजातीयस्पर्धाविगलितविवेकं सत् 'ऋतं च--' इत्यादिसंध्याघमर्पणचुलुकोदकस्पर्शमिषेण सलिलं जिघ्रतीति सलिलघ्रं जलाघ्राणं कुर्वदिवाभूत् । लोभस्पर्धाभ्यां विगलितविवेको ह्यविषयपि प्रवर्तते । संध्याघमर्षणं चकारेति भावः । श्वैत्यं, वर्णवाचित्वात्ष्यञ् । चतुरक्षीं, समाहारद्विगौ 'द्विगोः' इति ङीप् । सलिलत्रम् , आदन्तत्वात्कः॥

राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु किरति स्वकरेण ।
भ्रान्तयः स्फुरति तेजसि चक्रुस्वष्टुतर्कुचलदर्कवितर्कम् ॥ १८ ॥

 राज्ञीति ॥ अस्मिन् राशि भानुमतः सूर्यस्योपस्थितये उपस्थानार्थमात्तं गृहीतमर्घ्यदानसंबन्धि अर्घ्यदानानन्तरं वा 'असावादित्यः-' इत्यादिमन्त्रपूर्वं जलं शिरः परितः स्वपाणिना स्फुरति प्रकाशमाने तेजसि सौरप्रभाप्रसरे मध्ये गलद्विन्दुक्रमेण किरति सति भ्रान्तयः क्षिप्तोदकस्यैव प्रादक्षिण्यपरिभ्रमणानि लोकस्य त्वष्टुर्विश्वकर्मणः तर्कुः शाणचक्रं तत्र घर्षणवशाच्चलतो भ्राम्यतो विष्वक्पतनशीलतेजःकणस्यार्कस्य चितर्क तद्धिषयं विशिष्टमूहं चक्रुः । प्रकाशमानसौरप्रभाप्रदक्षिणप्रक्षिप्तगलद्विन्दुजलभ्रमणदर्शनेन विश्वकर्मणा सूर्यः पुनरपि शाणचक्रे धृतः किम् , अत एवैतेऽणवः कणाः पतन्तीति लोकस्य तदानीं बुद्धिरभूदित्यर्थः । भानुमदुपस्थितये गृहीतमम्बु स्वकरेण विक्षिपत्यस्मिन्राज्ञि विषये लोकस्य भ्रान्तयो नलाङ्गप्रभाप्रसरे प्रकाशमाने सति निशाणचक्रपरिभ्रमत्सूर्यसंभावनां लोकस्य चक्रुरिति वा । राज्ञा यदम्बु गृहीतं तस्मिन्नुत्क्षिप्ते जले स्फुरति प्रतिफलति रवितेजसि जायमाना भ्रान्तयो भ्रमणानि त्वप्रृतर्कुचलदर्कवितर्कं चक्रुः । उत्क्षिप्ता आपो वियति भ्रमन्त्यः पतन्ति, तत्प्रतिबिम्बिते तेजस्यपि भ्रमणानि जायन्ते, तत्रोत्प्रेक्षेति वा । अर्घ्यदानं सूर्योपस्थानं च कृतवानिति भावः । स्फुरिततेजसीति पाठे नलविशेषणम् ॥