पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२६
नैषधीयचरिते


 क्वेति ॥ यस्य देवपूजागृहस्य नभसि अन्तरावकाशे क्वापि कस्मिन्नपि प्रदेशे सुमनसां देवानां पूजार्थमानीताः सुमनसः पुष्पाणि तासां स्त्रग्दामानि मालापरम्पराः, यद्वास्त्रजः कण्ठमालाः, दामानि शिरोमाल्यानि, तेषां धामानि स्थानानि मध्यस्थापितपुष्पवेणुसुवर्णादिपात्राणि तेषां पटलेषु समूहे विषये तेषामुपरिष्टान्मेचकागुरुभवै: कृष्णागु- रुसमुद्भवैर्धूपजैः सौगन्ध्यार्थं रचितैर्धूपोत्पन्नैधूमैरेव भ्रमराणां पटलेन गणेन भूयते स्म जातम् । पुष्पाणामुपरि भ्रमरैर्भाव्यम्, तथाच-धूपजधूमा एव तत्स्थाने जाता इत्यर्थः । सुमनसो मालत्याः पुष्पाणां माला परस्पराः, तासां स्थानं । तद्रचितमिति यावत् । एवं(भूतं) पटलं वितानं यत्र तादृशे वा । देवानामुपरि पुष्पवितानमपि यत्रेत्यर्थः । देवपूजार्थमुपहृतपुष्पमालापरम्पराणां स्थानभूतं पटलं गृहप्रान्तच्छदिर्यत्र तादृशे यदन्तरम- देशे। देवतागारे हि छदिःप्रान्ते सौरभरामणीयकार्थं पुष्पमाला बध्यन्ते, तासामुपरि धूमा एव भृङ्गा जाता इत्यर्थ इति वा । बहुतरा धूपाः पुष्पमालाश्च यत्र सन्तीति भावः। 'सुमना मालती जातिः' इत्यमरः । 'पटलं छदि:-' (इति च) । 'नैकवर्ण-' इति यावदादिकुलकम् ॥

साङ्कुरेव रुचिपीततमा यैर्यैः पुरास्ति रजनी रजनीव ।
ते धृता वितरितुं त्रिदशेभ्यो यत्र हेमतिलका इव दीपाः ॥ २३ ॥

 साङ्कुरेति ॥ यत्र गृहे ते दीपा हेमतिलका इव त्रिदशेभ्यो वितरीतुं समर्पयितुं धृताः स्थापिताः सन्ति । ते के-यैर्दीपै रुच्या दीप्या पीतं ग्रस्तं तमो यस्यास्तादृशी सती सा भूता भविष्यन्ती वा रजनी रात्रिः साङ्कुरेवोद्भिन्नप्रत्यग्रतेजोङ्कुरसहितेव पुराऽस्ति अभूत भविष्यति वा । तथा-यैः कृत्वा कान्त्या पीततमा अतितरां पीतवर्णाऽत्यन्तगौरी रात्रिरुद्भिन्नप्रत्यग्राङ्कुरा रजनीव हरिद्रेवाभूद्भविष्यति वा । रात्रिः पीतीभूततया हरिद्रेव, प्रदीपकलिकाश्च तदङ्कुरा इवेत्युत्प्रेक्षोपमा वा । 'निशाख्या काञ्चनी पीता' इत्यमरः । पीततमा पक्षे सान्तम्, पक्षे तमबन्तम् । पुरास्तीति 'पुरि लुङ्चास्मे' इति (भूते) 'यावत्पुरा-'इति भविष्यति वा लट् ॥

यत्र मौक्त्तिकमणेर्विरएण प्रीतिकामधृतवहिपदेन ।
कुङ्कुमेन परिपूरितमन्तः शुक्तयः शुशुभिरेऽनुभवन्त्यः ॥ २४ ॥

 यत्रेति ॥ यत्र देवागारे मौक्तिकमणेः प्रियतमस्य विरहेण कर्त्रा कुङ्कुमस्य स्वोद्दीपनहेतुतया प्रीतिस्तया कामं दत्तं कामेन कर्त्रा वा दत्तं वह्ने: पदं दाहकत्वादिरूपोऽधिकारस्तद्रूपं चिह्न वा यस्य तेन कुङ्कुमकेसरेण परिपूरितमन्तर्मध्यभागमनुभवन्त्यो बिभ्राणाः शुक्तयः शुशुभिरे । वियोगिन्यो हि विरहाग्नितप्तं हृदयमनुभवन्ति । कुङ्कुमपूर्णाः शुक्तयो वियोगिनीरूपकेण वर्ण्यन्ते । यद्वा-मौक्तिकमणिविरहेणोपलक्षिताः शुक्तयः कुङ्कुमस्य कामोद्दीपनहेतुतया या प्रीतिस्तया युक्तेन कामेन । अन्यत्पूर्ववत् । प्रीतो हि किंचित्पदं ददाति । शुक्तयो विशिष्टेन कुङ्कुमेनोपलक्षिताः सत्यो मौक्तिकमणिविरहेण