पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२८
नैषधीयचरिते


पर्वतमनुच्चं खर्वमकार्षीत् । शुभ्रतरस्फटिकवर्णमल्लिकापुष्पराशिः कैलासादप्युच्चतरो यत्रास्तीत्यर्थः । पृथगन्वयात्खर्वानुच्चपदद्वयं भिन्नमिति ज्ञेयम् ॥

स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूमवजज्ञौ ।
हृद्यदैवतनिवेद्यनिवेशाद्यत्र भूमिरवकाशदरिद्रा ॥ २९ ॥

 स्वात्मन इति ॥ यत्र हृद्यानां वर्णरसादिना मनोहारिणां देवतासंबन्धिनां निवेद्यानां पञ्चखाद्याद्यपहाराणां निवेशादवस्थापनाद्धेतोस्तिलमात्रावकाशेनापि दरिद्रा रहिता भूमिः स्वात्मनः प्रियं प्रत्यपि लक्षीकृत्य गुप्तिं सर्वाङ्गसंवरणरूपं गोपनं कुर्वती शोभनस्य स्वस्य वा देहस्य गोपनं कुर्वती वा तिलमात्रमपि प्रदेशं द्रष्टुमददाना सती कुलवधूमवजज्ञौ अवमेने । कुलस्त्रीतुल्याभूदित्यर्थः॥

यत्र कान्तकरपीडितनीलग्रावरश्मिचिकुरासु विरेजुः ।
गातृमूर्धविधुतेरनुबिम्बात्कुट्टिमक्षितिषु कुट्टिमितानि ॥३०॥

 यत्रेति ॥ यत्र वर्तमानासु कुट्टिमक्षितिषु चन्द्रकान्तादिमणिबद्धभूमिषु देवपूजावसरे गातॄणां गायकानां गानवशान्मूर्धविधुतेः शिरःकम्पस्थानुबिम्बात्प्रतिबिम्बाद्धेतोस्तद्याजेन कुट्टिमितानि हठक्रियमाणचुम्बनादिपरिहारार्थं कामिनीशिरःकम्पविलसितानीव विरेजुः । किंभूतासु-भीमो भीमसेनवत् कान्ताः सूर्यकान्ताश्चन्द्रकान्ता वा तेषां करैः किरणैः पीडिताः पुरस्ताद्गन्तुं प्रतिबद्धाः। तत्रैव घनीभूता इति यावत् । नीलग्रावरश्मयो नीलमणिकिरणा एव चिकुराः सुनीलाः केशा यासां तासु । कामिन्यो हठपरिचुम्ब्यमानाः प्रियपाणिगृहीताः नीलमणिरश्मितुल्याः सुनीलाः केशा यासां कृतकचग्रहाः सत्यश्चुम्बनादिपरिहाराय शिरःकम्पनरूपान् विलासान् कुर्वन्ति । नानामणिबद्धा भूमयो देवसेवका गायकाश्च यत्र सन्तीति भावः ॥

नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये ।
अध्यतिष्ठदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ ॥३१॥

 नेति ॥ स क्षितीन्दुर्भूचन्द्रो नलस्तत्रोक्तरूपे देवपूजागृहे अमलं मणिभी रत्नैः खचितं पीठमध्यतिष्ठत् । किंभूते-नैकवर्णा मणयो, येषु देवार्थं कल्पितैर्नानावणैर्भूषणैः पूर्णे । तथा-अनवद्यानि मोदकादिनिवेद्यानि यस्मिन् । तथा-चित्राणां नानावर्णानामाश्चर्यकारिणां वा देवार्थमानीतानां सिचयानां वस्त्राणामुच्चयेन राशिना चारौ रमणीये पूर्णे । मणिपीठम् , 'अधिशीङ्-'इति कर्मत्वम् । चार्विति पाठे-पीठविशेषणम् ॥

 पञ्चायतनपूजायां प्राथम्येन सूर्यपूजाया विहितत्वात्प्रथमं सूर्यपूजामाह-

सम्यगर्चति नलेऽर्कमतूर्णं भक्तिगन्धिरमुनाकलि कर्णः ।
श्रद्दधानहृदयप्र[१]ति चातः साम्बमम्बरमणिर्निरचैषीत् ॥ ३२ ॥


  1. क्षइधानहृदयं प्रतीति पाठे-श्रद्धावद्धृदयममुं नलं प्रति लक्षीकृत्य भानुमान् साम्बं निरचैषीत् साम्ब एवासाविति ज्ञातवानित्यर्थः । पूर्व एव पाठः पटीयान्' इति सुखावबोधा।