पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२९
एकविंशः सर्गः।


 सम्यगिति ॥ नले सूर्यकान्तमणिरूपं सुवर्णादिघटितप्रतिमारूपं वाऽर्कं सम्यक् श्रौतस्मार्तमार्गेण अतूर्णं त्वरारहितं सावधानतया चिरकालमर्चति सति अमुना सूर्येण कर्णो राधेयो भक्तिगन्धिः अल्पा भक्तिर्यस्य तादृशोऽकलि व्यज्ञापि । सूर्यभक्तोऽपि कर्णो नलापेक्षयाऽतिहीन एवेति सूर्येणान्तर्निश्चित इत्यर्थः। तथा-नलेऽर्कं शनैरर्चति सति अम्बरमणिः सूर्यः श्रीकृष्णपुत्रं साम्बमन्तःकरणे श्रद्दधानहृदयप्रति श्रद्दधानहृद्यमात्रं निरचैषीनिश्चितवान् । साम्बोऽपि भक्ततया प्रसिद्धोप्यल्पश्रद्धावान्, नतु नलवदत्यन्तं भक्त इति निश्चिकायेत्यर्थः। उभाभ्यामपि सकाशान्नलस्य सूर्ये महती भक्तिरभूदिति भावः । अर्चतीत्यचौरादिकादर्चतेः शता । भक्तिगन्धिः, अल्पाख्यायां गन्धस्येत् । हृदयप्रतीति 'सुप् प्रतिना मात्रार्थे' इत्यव्ययीभावः ॥

तत्तदयमरहस्यजपषु स्त्रङ्मयः शयममुष्य बभाज।
रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः ॥ ३३॥

 तदिति ॥ तेषां तेषामर्यमसंबन्धिनां सूर्यसंबन्धिनां रहस्यानां श्रौतस्मार्तमन्त्राणां जपेषु उपांश्वावृत्तिषु विषये स्त्रङ्मयो जपमालिकारूपः रक्तचन्दनकाष्ठजानां बीजानां कृतच्छिद्रमणीनां फलमध्यवर्तिबीजानां वा समाजः समूहो जपतोऽमुष्य शयं हस्तं बभाज सिषेवे । उत्प्रेक्षते-तत्करे वर्तमानमुच्चैरतिशयितं रक्तिमानं रक्तत्वं रक्षितुमिव । अन्योपि शिष्य उपाध्यायं सेवत एव । रक्तचन्दनबीजजपमालिकाजपेन सौरमन्त्राणां शीघ्रफलदत्वात्सौरमन्त्रान्रक्तचन्दनमालिकया जजापेत्यर्थः। स्त्रङ्मयः, एकाच्त्वान्मयटू॥

 इदानीं श्लोकाष्टकेन हरपूजामाह-

हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः ।
आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव ॥ ३४ ॥

 हेमेति ॥ हेमनामकस्य धत्तुरस्य तरोः प्रसवेन विकसितकुसुमेन कृत्वा तेन नलेनोपकल्पिता पूजा यस्य स त्र्यम्बको राजितः शुशुभे । उत्प्रेक्षते-रतीशं युधि विजित्य बलादात्तया गृहीतया कुसुमरूपकाहलया धत्तूरपुष्पाकारवाद्यविशेषेणेव । कुसुमकाहलयोपलक्षित इवेति वा । शराणां कौसुमत्वाद्वादित्राणामपि कौसुमतया युक्तत्वात्कामकाहलायाः कौसुमत्वमुचितमेव । पराभूतात्कामाद्बलागृहीतया कौसुमकाहलयेव धत्तूरपुष्पेण रञ्जित इत्यर्थः। अन्योपि शत्रुं जित्वा बलाद्गृहीतेन तच्छस्त्रवादित्रादिना शोभते। सौन्दर्येण स्वस्पर्धितया स्वस्य शिवभक्तत्वात्कामस्य च शिवविरोधित्वात्स्वविरोधिनं स्वस्वामिविरोधिनं च स्मरं रणे जित्वा तस्माद्वलानलेनैव गृहीतया कुसुमकाहलयेव धत्तूरपुष्पेण कृत्वा नलेन कृतोपदः, अथच--कृतपूजः शुशुभे । सेवको हि स्व- विरोधिनं स्वस्वामिविरोधिनं वा रणे जित्वा तच्छस्त्रवादित्रादि बलाद्गृहीत्वा स्वामिन उपदाकरोति । तेन च स्वामी शोभते इति वा । प्रियतरेण धनूरपुष्पेण स नलः शिवमपूपुजदिति भावः । 'धत्तूरः कनकाह्वयः' इत्यमरः । 'वाद्यभाण्डविशेषे तु काहला' इति विश्वः॥