पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३०
नैषधीयचरिते


अर्चयन्हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन।
सोयमापयदतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् ॥ ३५ ॥

 अर्चयन्निति ॥ स्मितं विकासं भजते स्मितभाक् तेन विकसितेन नागकेसराख्यस्य तरोः प्रसवेन पुष्पेण कृत्वा हरकरं सुवर्णाद्घिटितदक्षिणामूर्त्यादिशिवप्रतिमापाणिमर्चयन् पूजार्थं स्थूलतरं शुभ्रतरं केसरतरुकुसुमं तत्पाणौ स्थापयन् सोयं नलस्तिरश्र्च्या दिशः प्राच्यादिदिगष्टकाद् अवाच्या अधोदिशः सकाशादन्याऽतिर्यगवाग्दिक् ऊर्ध्वा दिक् तस्याः पालो रक्षको ब्रह्मा तस्य चिरकालघर्षणाद्गतकृत्ति पाण्डुरं धवलतरं कपालं शिरस्तेन ब्रह्मकपालेन कृत्वा विभूषामलंकृतिं कपालरूपां विभूषामापयदलम्भयत् । हरेण ब्रह्मणः पञ्चमं शिरश्छिन्नं प्रायश्चित्तं कुर्वतो हरस्य भिक्षार्थं करे तिष्ठति । ततश्च तत्प्रतिमायामपि तेन भवितुं युक्तमिति केसरपुष्परूपेण ब्रह्मकपालेन तत्करमलंचकारेत्यर्थः। 'चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः' इत्यमरः । हरकरम्, अर्चनापेक्षया कर्मत्वम् । पक्षे आप्नोतर्गत्यर्थत्वादणौ कर्तुर्णौ कर्मत्वम् । तिर्यगवागिति वाऽव्ययम् , अतिर्यगवाक् चासौ दिक् चेति समासः॥

नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम् ।
स्फाटिकीमपि तनुं निरमासीन्नीलकण्ठपदसान्वयत्तायै ॥ ३६ ॥

 नीलेति ॥ स नलस्तस्य हरस्य स्फटिकनिर्मितामपि तनुं हरप्रतिमां नीलनीररुहाणां माल्यं माला तन्मयीं गलनालः कण्ठस्तस्य विभूषां भूषणं न्यस्य आबध्य नीलकण्ठवाचकं पदं तस्य सान्वयतायै अन्वयसाहित्याय नीलः कण्ठोऽस्येति संबन्धसार्थक्याय निरमासीत् निर्मितवान् । नीलोत्पलमालां कण्ठे बद्धवा स्फाटिकीमपि शिवप्रतिमां नीलकण्ठपदसहितामकरोदित्यर्थः । कण्ठ एव नीलोत्पलपूजां चकार, अन्यत्र तुचन्दनश्वेतपुष्पादिभिः पूजितवानिति भावः ॥

प्रीतिमेष्यति कृतेन ममेहकर्मणा पुररिपुर्मदनारिः।
तत्पुरः पुरमतोयमधाक्षीद्धूपरूपमथ कामशरं च ॥ ३७॥

 प्रीतिमिति ॥ पुराणां दैत्यविशेषाणां रिपुः,तथा-मदनस्यारिः शिवो मम कृतेन ईदृशा कर्मणा पुरकामशरदाहरूपव्यापारेण प्रीतिमेष्यति प्रसन्नो भविष्यति । अतो हेतोरिव इति बुद्ध्येवायं नलस्तस्य पुररिपोः कामारेः पुरो धूपरूपं धूपस्वरूपम् , अथ च -धूपवेषधारिणं पुरं गुग्गुलुमधाक्षीत् ददाह । अथ तद्दाहानन्तरं धूपविशेषरूपं कामशरं कामबाणं च ददाह । यस्यारिर्यद्रिपुरशरश्च यदग्रे येन दह्यते स तस्मिन् प्रयित एव । शिवभयेन वेषान्तरधारिणं पुरं दैत्यं कामबाणं च मोहनाख्यं ददाहेत्यर्थः । धूपसमर्पणान्तां शिवपूजामकरोदिति भावः । ईदृशा पुष्पपूजान्तेन भक्तियुक्तेनापि कर्मणा पुररिपुः कामारिः शिवो मम कृते मदर्थं मयि विषये प्रीतिं न यास्यति एतावतापि संतुष्टो न भविष्यति,अतः कारणादिव तदग्रे पुरं कामशरं च तदाह। एवं कृते शंकरस्तुष्टो