भविष्यतीति भाव इति वा । पुररिपुर्मदनारिरिति च योगस्यैवात्र प्राधान्यान्न पौनरु-
क्तयम् । 'गुग्गुलौ कथितः पुरः' इति विश्वः। तत्पुरः, शेषषष्ठी समासः । अन्यथा-अव्ययेन सह षष्ठीसमासनिषेधः स्यात् । तदिति लुप्तषष्ठीकं विभक्तिप्रतिरूपकमव्ययं
पृथक्पदं वा॥
तन्मुहूर्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम् । |
तदिति ॥ स चासौ मुहूर्तश्च तमपि तस्सिन्देवपूजाक्षणेपीत्यर्थः। भीमतनूजाविप्रयोगं वियोगमसहिष्णुरयं नलः शूलिमौलौ वर्तमानाच्छशिनो भीततयेव नेत्रध्यानेन यन्मूर्च्छनमेकाग्रतालक्षणः प्रलयस्तेन हेतुना निमीलिते संकोचितपक्ष्मीकृते नेत्रे येनैवंभूतोऽभूत् । विरहित्वाद्धरशिरश्चन्द्रदर्शनस्य नितरां संतापकारित्वभिया ध्यानमूर्छनव्याजेन नेत्रे निमीलितवानित्यर्थः । पूजानन्तरं शिवस्य ध्यानं चकारेति भावः । शूलधारिणापि यः शिरसि धृतः, तस्मादधिकं भयं युक्तमिति सूचयितुं शूलिपदं प्रायोजि । तन्मुहूर्तम् अत्यन्तसंयोगे द्वितीया । विप्रयोगं, 'न लोका-' इति षष्ठीनिषेधाद्वितीया ॥
दण्डवद्भुवि लुटन्स ननाम त्र्यम्बकं शरणभागिव कामः । |
दण्डवदिति ॥ स नलो दण्डेन तुल्यं साष्टाङ्गपातेन भुवि लुठन् सन् त्र्यम्बकं ननाम। किं कृत्वा-तस्य हरस्य पदयुगे पुष्पाञ्जलिदानार्थमञ्जलिदानाय धृतानि कुसुमानि न्यस्य समर्प्य । तत्रोत्प्रेक्षते-तान्येव कुसुमानि आत्मनः खड्गादि शस्त्रं विशिखासनं धनुः, बाणान् स्वशस्त्रभूतानि पुष्पाणि हरपदयुगे समर्प्य 'अद्यप्रभृति शस्त्रं न धारयामि दासोस्मि मां रक्ष' इत्यादि वदन् शरणं रक्षितारं शिवमेव भजमानो रूपसाम्यात्काम इव ध्यानानन्तरं पुष्पाञ्जलिदानपूर्वकं भक्त्यतिशयेन दण्डवत्प्रणाममप्यकरोदित्यर्थः । वि- शिखासनं तूणीरं वा । अन्योपि शरणागते एवमेव करोति ॥
त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि। |
व्यम्बकस्येति ॥ क्षेपकः । सैष इत्यत्र 'सोचि लोपे चेत्-' इति सुलोपः। पूर्वश्लोकोक्त एवार्थः॥
व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम् । |
व्यापृतस्येति॥ रुद्रशब्दात्परेषां पश्चादुच्चार्यमाणानामक्षाणां ।रुद्राक्षाणामित्यर्थः। रुद्रः परः परं दैवतं येषां वा रुद्रपराः शिवभक्तास्तत्संबन्धिनां । तैर्धार्यमाणानामिति यावत् । तादृशानां वा मणीनां श्रेणिर्माला भृङ्गभङ्गिभ्रमरपङ्तिरिवास्य नलस्य नवपल्लववल्लीला