पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३२
नैषधीयचरिते


यस्य तत्सदृशमित्यर्थः । एवंविधं पाणिं करमश्रयत सिषेवे। किंभूतस्य-रुद्रपरस्य शिवभक्तस्य, अत एव शतं रुद्रा देवता अस्य शतरुद्रसंबन्धिनः शतरुद्रियसंशकस्य 'नमस्ते-' इत्यादि शिवसूक्तस्य जप्तौ जपे विषये व्यापृतस्य सव्यापारस्य रुद्राक्षाणां रुद्रपरत्वात् 'नमस्ते-' इत्यादिषडङ्गजपं रुद्राक्षजपमालया चकारेत्यर्थः ॥ भृङ्गमालापि नवपल्लवं सेवते । शतरुद्राद्धश्च' इति वक्तव्याद्धः । जप्तौ, 'तितुत्र-' इतीण्निषेधः। 'पझाक्षैश्चैव रुद्राक्षैः-' इत्यादिहारीतोक्तो हरोक्तश्च जपमालाविधिद्रष्टव्यः । अणिमादिसिद्धये पाद्मो रौद्राक्षश्चेति ज्ञातव्यः॥

उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः ।
द्वादशापि च स केशवमूर्तीार्द्वादशाक्षरमुदीर्य ववन्दे ॥ ४२ ॥

 उत्तममिति ॥ स महीभृन्नल उत्तमं परमं पूरुषं पुरुषोत्तमं पुरुषसूक्तस्य 'सहस्रशीर्षा पुरुषः-' इत्यादिषोडशर्चस्य सूक्तस्य विधानैरनुष्ठानप्रकारविशेषैः 'दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा । अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् । आनुष्टुभस्य सूक्तस्य त्रिष्टुभ(ब)न्तस्य देवता । पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः ॥' तथा -'ओंकारपूर्वकैश्चैव षोडशर्चैः पृथक्पृथक् । आवाहनासनं पाद्यमर्ध्यमाचमनीयकम् । स्नानं वस्त्रोपवीतं च गन्धमाल्यानि च क्रमात् । धूपं दीपं च नैवेद्यं नमस्कारं प्रदक्षिणम् । षोडशोद्वासनं कुर्यादेष नारायणो विधिः॥ इति स्मृतिवाक्यविहितं प्रत्यृचक्रमनिर्दिष्टैः षोडशोपचारैर्महतिस्मापूपुजत् । स नलः 'यवादेसुवा तेवगभ मोन ओम्' इति व्युत्क्र- मोक्तद्वादशाक्षरं वासुदेवमन्त्रं वैषणवागमोक्तक्रमेणोदीर्य सम्यगुच्चार्य द्वादशापि केशव- संबन्धिनीर्मूर्तीर्वैष्णवीर्द्वादशशालग्रामशिलामूर्तीर्ववन्दे तुष्टाव प्रणनाम वा। ता अप्यपू- जयदिति भावः। 'शिला द्वादश भो वैश्य शालग्रामसमुद्भवाः। विधिवत्पूजिता येन तस्य पुण्यं वदामि ते । कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः। यत्स्याद्वादशकल्पेषु दिनेनैकेन तद्भवेत् ॥' इति पद्मपुराणमिति भावः॥ पूर्वोक्तद्वादशाक्षरमुच्चार्य द्वादशसंख्याका अपि केशवसंबन्धिनीर्मूर्तीः सामर्थ्यादेतन्मन्त्राक्षरसूचिताः ॐ केशवाय धात्रे नमः' इति प्रकारेण 'द्वादशादित्यसहिता मूर्तीर्द्वादश विन्यसेत् । केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः । ललाटे केशवं धात्रा कुक्षौ नारायणं पुनः । अर्यम्णा हृदि मिन्त्रेण माधवः कण्ठदेशतः। वरुणेन च गोविन्दं पुनर्दक्षिणपार्श्वके । अंशुना विष्णुमंसस्थं भगेन मधुसूदनम् । गले विवस्वता युक्तं त्रिविक्रममनन्तरम् । वामपार्श्वस्थमिन्द्रेण वामनाख्यमथांसके। पूष्णा श्रीधरनामानं गले पर्जन्यसंयुतम् । हृषीकेशाह्वयं पृष्ठे पद्मनाभं ततः परम् । त्वष्ट्रा दामोदरं पश्चाद्विष्णुना ककुदि न्यसेत् । द्वादशार्णं महामन्त्रं ततो मूनि प्रविन्यसेत् ॥' इति द्वादशाक्षरगर्भितमिति ज्ञातव्यम् । प्रकारान्तरमागमोक्तं द्रष्टव्यम् । महीयानिति पाठे-नितरामागशास्त्रकोविदः परमभक्तश्चेत्यर्थः । 'पुरुपा पूरुषा नरः' इत्यमरः॥

 कथमपूपुजदित्याह-

मल्लिकाकुसुमदुण्डुभकेन स भ्रमीवलयितेन कृते तम् ।
आसने निहितमैक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥४३॥