पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३३
एकविंशः सर्गः

 मल्लिकेति ॥ स नलः भ्रमीभिर्भ्रमणैर्वेष्टनैर्वलयितेन वलयाकारीभूतेन मल्लिकाकुसुमसंबन्धिना दुण्डुभकेन निर्विषविफणस्थूलराजिलतुल्येन घनस्थूलतरदाम्ना कृत्वा नलेनैव कृते रचिते आसने निहितं स्थापितं तं पुरुषोत्तमं साक्षात्तत्त्वतः कुण्डलिनां चक्षुः- श्रवसामिन्द्रः शेषस्तस्य तनुः शरीरं तस्य कुण्डलं पुच्छवेष्टितवलयाकारशरीरभागं तद्भजते इति कुण्डलाकारशेषशरीरे वर्तमानमिव ऐक्षत । दुण्डुभस्य विफणतया साम्यात्स्थूलघनतरे पुष्पदाम्नि दुण्डुभपदं लाक्षणिकम् । दुण्डुभप्रतिकृतिर्दुण्डुभकः 'इवे प्रतिकृतौ' इति कन् । 'दुडि निमज्जने' दुण्डतीति दुण्डुभ इत्यौणादिकः पृषोदरादिर्वा ॥

मेचकोत्पलमयी बलिबन्ट्वुस्तट्वलिस्रगुरसि स्फुरति स्म ।
कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः॥ ४४ ॥

 मेचकेति ॥ मेचकोत्पलानि नीलोत्पलानि तन्मयी तद्वलिस्नक् तेन नलेन समर्पिता वलिस्नक् पूजामाला बलिवन्द्धर्बलेबन्धनकारिणः श्रीविष्णोरुरसि स्फुरति स्माशोभत । उत्प्रेक्षते-कौस्तुभाख्यमणेः संबन्धि कुट्टिमं कौस्तुभमणिबद्धा भूर्वक्षोलक्षणा तद्वास्तु वसतिस्थानं यस्यास्तस्याः श्रियः कटाक्षाणां विकटायितानि विस्तारान्नीलतरनेत्रगोलकवक्रविस्फुरितकिरणास्तेषां कोटिः परम्परेव । नीलोत्पलमालाया वक्षस्येव वर्तमानत्वात्तत्रैव च लक्ष्म्या अपि वर्तमानत्वात्साम्यात्कटाक्षविकटायितं कोटिरिवाशोभतेति प्र. तीयमानोत्प्रेक्षा । बलिबन्द्धुः तृनि पूर्वेण 'द्वितीया' इति योगविभागात्समासः। विकटायितम्, आचारक्यङन्ताद्भावे निष्ठा ।

स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य ।
मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् ॥४५॥

 स्वर्णेति ॥ स नलस्तस्य पुरुषोत्तमस्य मूर्ध्नि हेम्नः सुवर्णघटितपुष्पाणां मालया कृत्वा स्वर्णकेतकीपुष्पाणां शतानि, तथा-रजतस्य रूप्यघटितपुष्पाणां मालया कृत्वा पुण्डरीकाणां सिताम्भोजानां घटनां समर्पणां, तथाअरुणमणेः समर्पितमाणिक्यपद्मरागादिरक्तवर्णमणीनां मालया च कृत्वा करवीरपुष्पाणि, एतत्सर्वं पुनरुक्तमकार्षीत् । सवर्णेनान्येनैव पूजायाः सिद्धत्वात्स्वर्णकेतकादि निरर्थकं चकारेत्यर्थः । स्वर्णकेतकादिभिः सुवर्णघटितपुष्पादिभिश्च श्रीपुरुषोत्तममपूपुजदिति भावः । विष्णुपूजायां कमलकरवीरजपावाणपुष्पव्यतिरिक्तानां रक्तपुष्पाणां निषेधः, गृहारोपितकरवीरकुसुमपूजानिषेधः, इत्यविरोधः । पुनरुक्तं, 'नपुंसकमनपुंसकेन-' इत्येकशेषैकवद्भावौ ॥

नाल्पभक्तबलिरत्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः ।
शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् ॥ ४६ ॥

 नाल्पेति ॥ स पुरुषोत्तमस्तस्य नलस्यान्ननिवेद्यैस्तेन समर्पितैर्नानाविधौदनानामुपहारैः कृत्वा नाल्पोऽतिमहान् भक्तबलिरोदनोपहारो यस्य, अथ च -अतिमहान् भक्तः[१]


  1. 'आचारक्विबन्तात्' इति सर्वत्रोपलब्धोऽपि पाठो दुष्ट एव ।