पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३७
एकविंशः सर्गः।

स्योत्कण्ठितस्य चातकस्त्रीपुंसयुगस्य घनो मेघो जलदानेन तृप्तये स्यादेवेति दृष्टान्तेनाविषयोपि भवान् स्तुतो ध्यातश्च मोक्षहेतुः । स्वयमेवानुग्रहीष्यतीति तव स्तुतिः कर्तुं युक्तैवेति भावः । वाङ्मनसयोः, 'अचतुर-' इत्यादिना साधुः॥

 इदानीं प्रथमं मत्स्यावतारं स्तोतुमाह-

छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः।
श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा ॥ ५६ ॥

 छझेति ॥ हे हरे, शङ्खासुरापहृतवेदोद्धरणरूपच्छद्मना मत्स्य एव वपुर्यस्य तस्य तव पुच्छेनास्फालनादाघातादूर्ध्वमुद्धतं क्षिप्तमुच्छलितं सागरजलमिव गगनाङ्गणस्य सङ्गासंबन्धाच्चैत्यं धवलतामेत्य प्राप्य विबुधालयस्य स्वर्गस्य गङ्गा मन्दाकिनी आविरस्ति प्रकटीभवति । तदेव जलं मन्दाकिनीभूय गगने स्फुरतीत्यर्थः । वेदसंरक्षणद्वारा लोकानुग्रहार्थमेव त्वया त(त्त)च्छरीरं धार्यते इति भावः । एवमुत्तरत्रापि ञेयम् । श्वैत्यमेत्येवेति वान्वयः । 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत' इत्यादि श्रीकृष्णवचनमेव छद्मपदेन सूचितम् । सागरोदकस्याश्रयौपाधिकतया प्रतिभासमानस्यापि गगने क्षिप्ततया निरुपाधिकं शुक्लमेवापां रूपं प्रकटितमित्यनेनातिस्थूलतरशरीरवत्त्वं सूचितम् । नदी चाद्यापि तथैव तिष्ठति, नत्वधः पततीति सामर्थ्यातिशयः सूच्यते । यद्यपि नलः शैव इति प्रथा, तथापि शिवस्य विष्णुभक्तत्वाद्विष्णुस्तुत्यैव शिवस्य प्रीतिसंभवादैकरूप्याञ्च नलस्य विष्णुस्तुतिकरणम्।श्रीहर्षस्य च परमवैष्णवत्वात्पुरुषोत्तमस्तुतिनिवन्धनं युक्तमेवेति न काचिदनुपपत्तिः । अतएवोपसंहारेपि 'हरिहरं परिपूज्य' इत्युक्तम् ॥

 कूर्मं वर्णयति-

भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः ।
चुम्बितावतु जगत्क्षितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥ ५७ ॥

 भूरीति ॥ हे भगवन्, तव कमठसंज्ञा मूर्तिर्जगद् अवतु । किंभूता-भूरिषु सृष्टिषु प्रतिसर्गं धृतानां भूवलयानां किणैरतिघर्षणनिष्ठुरीभूतसंजातवैवर्ण्यत्वग्व्रणैरिव चक्रैश्चक्राकाररेखाविन्यासविशेषैः पृष्ठस्य सीमनि स्थले चुम्बिता स्पृष्टा । किंभूतस्य-क्षितौ क्षये प्रलये रक्षायां च कर्मठस्य कर्मशूरस्य पृष्ठे धारणेन क्षितिरक्षणक्षमस्य । पृथ्वीधारणद्वारा लोकानुग्रहार्थमेव कमठरूपं त्वया धृतमिति भावः । सप्तपातालान्तेऽधस्तात्फणामण्डलेन शेषो भुवं बिभर्ति, ततोऽप्यधो ब्रह्माण्डाधः कटाहस्य भारं पृष्ठे वहन् ब्रह्माण्डावरण(जलावरण)रूपे जले कूर्मराजो वर्तत इति पुराणम् । एतेन प्रतिसर्गमनन्तभूमण्डलधारणेनानिर्वाच्यमहिमत्वं सूचितम् । कमठपृष्ठे च स्वभावतश्चक्राणि भवन्ति ॥

 श्लोकद्वयेन वराहं वर्णयति-

दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोपि समुद्रान्।
तस्य पोत्रिवपुषस्तव दंष्ट्रा तुष्टयेऽस्तु मम वास्तु जगत्याः॥ ५८ ॥